SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१. प. २.] संस्काराख्यानम् यायात्कृताहिकः शश्वदभुक्तानो विशेषतः। [शवसंस्कारविधानम् ] मागुक्तया पुरा दृष्टया अवलोक्य च तं द्विज ॥४॥ [शवस्य स्नपनालङ्करणे] दत्वाऽऽज्ञां तु समुत्थाप्य स्नापयेत्तु मृतं पुरा। अस्त्रमन्त्राभिजतेन गोमयेन मृदम्भसा ॥५॥ मुगन्धामलकै नाप्य सर्वोषध्युदकेन च । चन्दनेन समालिप्य सबाह्रीकेन नारद ॥ ६ ॥ सकषाये सिते वाऽथ वाससी घधरोत्तरे। परिधाप्योपवीतं च सोत्तरीयं तथा नवम् ॥७॥ पवित्रकद्वयं तत्र योज्याङ्गुल्योः कुशैः कृतम् । पुष्पस्रग्भूषितं कृत्वा स्थाप्य यन्त्रे पटाहते ॥ ८॥ [शवस्य संस्कारस्थाननयनम् ] गृहीत्वाऽथ स्वजातीयैर्दीक्षितैर्वाऽप्यदीक्षितैः। तनयेत्संस्कृतिस्थानमस्थ्यङ्गारादिवर्जितम् ॥ ९॥ [संस्कृतिस्थानसमीकरणम् ] उपलिप्य पुरा तद्वै समीकृत्य यथाविधि । [ भैक्षपात्रादिद्रव्याणां तदीयानां तच्छवेन सह नयनम् ] भैक्षपात्रं तथा दण्डं सुनुवौ चाक्षसूत्रकम् ॥ १० ॥ पादुके आसनं चैव योगपट्ट तथैव च । दारवं भद्रपीठं च सार्घ्यपात्रं कमण्डलुम् ॥ ११ ॥ भांत्रोपकरणं सर्वं तदीयं मुनिसत्तम । [तत्र वर्ण्यद्रव्याणि ] हिरण्यवस्त्रशास्त्रैश्च घण्टया च विवर्जितम् ॥ १२ ॥ सच्छाद्धकाले दातव्यं तत्मीत्यर्थ हि कस्यचित् । [प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम् ] नयेत्तस्याग्रतः पुष्पमाम्बुकुसुमादिकम् ॥ १३ ॥ उपयोज्यं च यत्तत्र अर्चने होमकर्मणि। For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy