SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. २१ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवित्रविधानम् ***** *** लक्षात्रिगुणं दानं ततस्तामेति नारद ।। ८६ ।। अञ्जलीयकविप्राय यद्दत्तं विधिपूर्वकम् । सहस्रांशशतांशेन. • हसेच्च तत् ॥ ८७ ॥ नृपादिशुद्रपर्यन्तं वक्ष्ये त्वारम्भिणामतः । लक्षपादगुणं दानं विप्रायारंभिणे मतम् ॥ ८८ ॥ सहस्रांशाद्दशांशोनं विद्धि क्षत्रादिपूर्वकम् । अथायुतगुणं दानं ब्राह्मणे संप्रवर्तिनि ॥ ८९ ॥ नृपे सहस्रगुणितं वाऽपि तच्छतसंज्ञकम् । अतो दशगुणं विद्धि योगज्ञादिष्वतः भृणु ॥ ९० ॥ कोटिकोटिगुणं दानं भगवद्योगवेदिनि । वि वेदविदां श्रेष्ठे तत्सहस्रांशवर्जितम् ॥ ९१ ॥ क्षत्रिये वैश्यजातौ तु शतांशोनं तदेव तु । दशांशहीनं तच्छूद्रे भगवद्योग सेविनि । ९२ ।। कोटिलक्षगुणं चैव जपनिष्ठे द्विजोत्तमे । सहस्रांशशतांशोनं दशांशोनं नृपादिषु ।। ९३ ।। कोटिसहस्रगुणितं ब्राह्मणे विष्णुतापसे । प्राग्वदूनं सहस्रादेस्तत्क्षत्रादिषु नारद ॥ ९४ ॥ नारायणागमज्ञे तु दानं द्विजवरे तु यत् । दत्तं काले पवित्रे तु कोटीशतगुणं स्मृतम् ॥ ९५ ॥ राजन्यवैश्यशूद्राणां पूर्ववत्कल्पयेच्च तत् । धत्ता (धृता ?) गमानां यो विमो वैष्णवानां च भक्तितः ॥ ९६ ॥ कोटीदशगुणं दानं तद्दत्तं भवतीति च । क्षत्रादिष्वेव विहितं तत्सहस्रादितो भवेत् ॥ ९७ ॥ [ वैष्णवमात्रस्य पूज्यता ] यः कश्चिद्वैष्णवस्तस्मिन्काले तत्रावतिष्ठते । स पूजनीयो विप्रेन्द्र यथाशक्ति च भक्तितः ॥ ९८ ॥ स्वभाववैष्णवो जन्तुरास्तां तावन्महामुने । [ वैष्णवलिङ्गधारिमात्रस्य पूज्यता ] गृहीत्वा वैष्णवं लिङ्गं भक्तो यः कश्चिदागतः ॥ ९९ ॥ अहं वैष्णवो देहि ब्रूते ह्येवमभीक्ष्णशः । For Private and Personal Use Only २३७
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy