SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ जयाख्यसंहिता [प. २१ निमज्जतो भवाम्भोषौ समयमच्युतस्य च । नमो नमस्ते मन्त्रात्मन् प्रसीद परमेश्वर ॥ ७३ ॥ पाहि पाहि त्रिलोकेश केशवातिविनाशन । त्वत्प्रसादाच मे मास्तु दोषः समयसंज्ञि(श्रि?)तः ॥७४ ॥ अधास्तु कर्मसंपत्तिनित्यनैमित्तिकी प्रभो । श्रुत्वैवमादरात्तस्य संसारातस्य मन्त्रराट् ।। ७५ ॥ पूर्णभावं नयच्छीघ्रं हन्ति दोषांश्च सामयान् । [अथ गुरोः पूजनम् ] एवं कृत्वा ततो भक्त्या पूजयेद्विष्णुवद्गुरुम् ।। ७६ ।। दक्षिणाभिर्यथाशक्ति विविधैः पानभोजनैः। प्राप्ता नियन्त्रिताश्चान्ये भगवद्भाविनस्तु वै ॥ ७७॥ [ पवित्रोत्सवान्ते कृतस्य यत्यादिभ्यो दानस्य फलाधिक्यकथनम् ] पञ्च वैखानसान्ताश्च यतिपूर्वाश्च नारद । आप्तादिपञ्चभेदेन चत्वारो ब्राह्मणादयः ॥ ७८ ॥ पञ्च योगरताद्यास्तु शास्त्रसन्धारणान्तिमाः। असंख्यं यतये दत्तं वैष्णवाय प्रकीर्तिम् ॥ ७९ ॥ विद्धि कोटिगुणश्चैव दत्तमेकान्तिने तु यत् । तस्माद्दशशतांशोनं दत्तं यच्छिखिने तु वै ।। ८० ॥ सात्वताय शतांशोनं दशांशोनं तु नारद । विद्धि वैखानसे दत्तं दानं प्रतिसरावधौ ।। ८१ ॥ चतुर्विधे द्विजाप्ते तु एवमेवमुदाहृतम् । आकोटेदानहासस्तु अनाप्तानामतः शृणु ॥ ८२ ॥ अनाप्ते लक्षगुणितं ब्राह्मणे परिकीर्तितम् । एवमेव तु दत्तं च बुहुशो बहुभोजनन् ॥ ८३ ॥ यो निरस्यति विप्रेन्द्र साधको 'वाऽप्यसाधकः। तस्याशु भवते सिद्धिरिह लोके परत्र च (?) ।। ८४ ॥ इत्येतत्साधकानां च क्रियासंपूरणं मया ।। कथितं मुनिशार्दूल तत्सहस्रशतांशतः ॥ ८५॥ शतांशोनं तदंशेन दत्तमेव नृपादितः। 1 बाह्य A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy