SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता १०० ॥ सोऽपि यत्नाद्यथाशक्ति पूज्योऽज्ञातोऽपि नारद ॥ [ आरोपितानां पवित्राणां यावदपनयनकालं तथैव मण्डलादौ संस्थाप्यता ] एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज । पवित्र स्थापनीयं मण्डलेऽचीगतं तथा ॥ १०१ ॥ अथवा गतं विप्र तद्वत्संस्थाप्य भूषणम् । यावदेकादशी शुक्ला संप्राप्ता कार्तिकस्य तु ॥ १०२ ॥ [ पुष्पमात्रस्य प्रत्यहमपनीयता ] पुष्पपूजापनयनं कृत्वा वै प्रत्यहं पुनः । पवित्रकं योजनीयं संप्राप्ते कालवासरे || १०३ ॥ [ पवित्रविसर्जनप्रकारविधानम् ] अपनी गुरोर्भक्त्या निवेद्य ब्राह्मणस्य वा । पञ्चकालमसक्तस्य तदभावात्तु नारद ॥ १०४ ॥ षट्कर्म संप्रसक्तस्य विष्णुभक्तस्य तत्त्वतः । विशेषयागं होमान्तं कृत्वाऽऽचार्यमपूजनम् ॥ १०५ ॥ वैष्णवाः पूर्ववत्पूज्या दद्यादाच्छादनं ततः । तेषां चैव यथाशक्ति अभावादथ नारद ।। १०६ ।। युग्ममेकं तु वा वस्त्रमेकस्यावश्यमेव हि । उपवीतानि चान्येषां सोत्तरीयाणि योजयेत् ॥ १०७ ॥ [ यतीनां सन्निधौ प्रार्थना ] प्रार्थना च ततः कार्या यतीनां संयतात्मनाम् । युष्मत्प्रसादसामर्थ्यान्ममास्तु परिपूर्णता ॥ १०८ ॥ क्रियाङ्गानां च सर्वेषां मा मेऽस्तु समयच्युतिः । [ अथ यत्यादीनां प्रतिवचनम् ] एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् ॥ १०९ ॥ सांवत्सरः क(त?)दाऽकृत्यदोषः समयपूर्वकः । नाशमायाति वै क्षिप्रं पवित्रारोहणान्मुने ॥ ११० ॥ [पवित्रशब्दनिर्वचनम् ] पाति यस्मात्सदोषं हि पतनात्परिरक्षति । विशेषेण द्विजां स्त्राति पूर्ण कर्म करोति च ॥ १११ ॥ For Private and Personal Use Only [ प. २१
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy