SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. २१ ] www.kobatirth.org पवित्रविधानम् Acharya Shri Kailassagarsuri Gyanmandir [ तेषां पवित्राणां व्यासमानग्रन्धिसख्यादिविधानम् ] व्यासादसमैः (?) कुर्याद्धाराकारं च तन्तुभिः ॥ १३ ॥ शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् । त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ १४ ॥ पत्रिंशद्धन्धिकं चायं द्वितीयं द्विगुणं स्मृतम् । तृतीयं त्रिगुणं विम [ प्रवित्रप्रन्धीनां रञ्जनादिविधानम् ] ग्रन्धि वैकुङ्कुमेन तु ॥ १५॥ रञ्जयेच्चन्दनाद्येन यथा शोभानुरूपतः । ग्रन्धियुक्तेन तुल्येन मृदुना सुसितेन तु ।। १६ ।। पूरयेद्ग्रन्धयोर्मध्ये शङ्खाकारं यथा भवेत् । मण्डले मन्त्रमूर्तीनां पूजनार्थ तु नारद ॥ १७ ॥ व्यासमानं तु कथितं पवित्राणां च सर्वदा । [ विम्बस्य शिरः प्रभृत्यवयवभेदेन पवित्राणामाकृतिभेदमान भेद विधानम् ] प्रतिष्ठितस्य बिम्बस्य परादौ ( ? ) धातुजस्य वा ॥ १८ ॥ मालाकृतिं च शिरसि यथेच्छग्रन्धिपूरकैः । द्वितीयमंसयोर्यावलम्बितं जानुमण्डले ।। १९ ।। मूर्ध्नः पादावधिर्यावन्त्रितीयमतिविस्तृतम् । [ पीठपवित्रप्रमाणविधानम् ] पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् ॥ २० ॥ [ प्रतिसराणां व्यासानियमः ] बिम्बप्रतिसराणां च व्यासश्वानियतः स्मृतः । सूत्रमानं च पूर्वोक्तं द्विगुणं सम्भवे सति ॥ २१ ॥ त्रिगुणं वा मुनिश्रेष्ठ आलभेत्पूरयेत्ततः । त्र्यङ्गुलान्तरिता देयास्सर्वेषां ग्रन्धयः समाः ॥ २२ ॥ सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः । [ कुम्भादिपवित्र निर्माणप्रकारविधानम् ] कुम्भोत्तमाभ्यामग्रे तु विद्यापीठस्य चैवहि ॥ २३ ॥ 1 शमै: CL. For Private and Personal Use Only २३१
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy