SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता स्रुक्स्रुवाभ्यां च घण्डायामक्षसूत्रे च नारद । अर्घ्यपात्रस्य चैककं सूत्रगर्भेर्यथेच्छ्या ॥ २४ ॥ [ गुर्वादीनां षण्णां यथाक्रमं पवित्रविधानप्रकारभेदः ] गुर्वादिसमयज्ञानां यतीनां भावितात्मनाम् । कुडुम्बिनां क्रमात्कुर्यात्तन्तुभिर्मुनिसत्तम ।। २५ ।। चतुर्विंशतिभिश्चैव सूत्रैः षोडशभिस्तथा । ततो द्वादशभिर्ब्रह्म नष्टभिस्तदनन्तरम् ॥ २६ ॥ षट्तिस्त्रिभिस्ततो देया ग्रन्धयः सूत्रसङ्ख्यया । रञ्जयेत्पूर्वविधिना न कुर्याद्गर्भपूरणम् ॥ २७ ॥ [ पवित्राधिवासाख्यकर्मविधानम् ] (तत्र पवित्रासादन प्रकारः ) संस्थाप्य वै दले भाण्डे पलाशपुटकेऽथवा । आच्छाद्य वाससा पश्चात्सुसितेनाहतेन तु ॥ २८ ॥ मध्ये तु यागद्रव्याणां तद्भाण्डं विनिवेश्य च । [ नित्यार्चनपूर्वक विशेषयजनविधानम् ] स्नात्वा तु पूर्वविधिना कुर्यान्नित्यार्चनं हरेः ॥ २९ ॥ ततो विशेषयजनं दीक्षाख्येन क्रमेण तु । द्वारयागादिकं कृत्वा सर्वे कलशपूर्वकम् ॥ ३० ॥ संविधानं मुनिश्रेष्ठ हवनेन समन्वितम् । एवं हि पूजनं कृत्वा मन्त्रसन्तर्पणं पुरा ॥ ३१ ॥ मुद्राबन्धजपान्तं च दद्यात्पूर्णाहुतिं ततः । पुरा यस्मिन्दिने विम अतीते वत्सरे कृतः ।। ३२ ॥ पवित्रकोपसंहारस्तद्दिनादादितः स्मरेत् । अर्घ्यपुष्पादिबलिभिः पूजयेत्सर्वमध्वरम् ॥ ३३ ॥ समाचम्य स्मरेत्सर्वे मन्त्रवृन्दं क्रमेण तु । पुरा प्रतिष्ठितं बिम्बं स्वयमन्य (कृ) तंतु वा ॥ ३४ ॥ निर्गत्य स्नापयेद्भक्त्या पूर्वोक्तविधिना ततः । For Private and Personal Use Only [ प. २१ + ' संस्थाप्य वै दले भाण्डे ' इत्यादिना रात्रौ जागरणं कुर्यादित्यन्तोग्रन्धः ( २८-५० ) पवित्राधिवासाख्य कर्मविधानपरः । सात्त्वतसंहितां व्याचक्षाणैः प्राचीनैः पवित्रारोपणप्रकरणव्याख्या नावसरे ' दशम्येकादश्यः कर्तव्यं पवित्राधिवासाख्यं कर्माह - 'दशम्यामित्यारभ्य जागरेण निशां नयेत्' इत्यन्ते नेत्युक्तम् ।
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy