SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३. [प. २१ जयाख्यसंहिता पवित्रारोपणाद्विम ऋते नान्या भवेद्गतिः । नारद: [प्रवित्रारोपणविधानप्रकारप्रश्नः ] पवित्रारोपणं विष्णोः श्रोतुमिच्छामि तत्त्वतः ॥ ४॥ येनाहं कृतकृत्यः स्यां क्रियासक्तः सदैव हि । श्रीभगवान् [पवित्रारोपणकालविधानम् ] कर्कटस्थे द्विजादित्ये सिमकन्यातुलास्थिते ॥ ५ ॥ द्वादश्यां शुक्लपक्षे तु राकायां यत्र रोचते । जपहोमक्रियालोपशान्तये विधिपूर्वकम् ॥ ६ यागं पवित्रकोदेशे कृत्वा पूर्वोदितश्च(तं च ?)यः । [ सूत्रादिद्रव्यांणामधिवासकालविधानम् ] दशम्यामधिवासं तु द्रव्याणां विधिपूर्वकम् ॥ ७ ॥ कुर्याच्चैव ससूत्राणां [सूत्राणां कौशेयत्वादिविकल्पः ] तत्सूत्रं विद्धि पहजम् । कार्पासमय वा क्षौमं श्लक्ष्णं दृढमकृत्रिमम् ॥ ८॥ तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च । पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत्पुनः ॥ ९ ॥ [अथ सूत्रैः पवित्रनिर्माणविधानम् ] पुरा तत्रिगुणं कृत्वा ततः कुर्याच्चतुर्गुणम् । समतां सर्वभावानां द्विजोत्पादयते यतः ॥ १० ॥ अतो न विषमैः कुर्यात्तन्तुभिः सूत्रमेव तत् । तेन सूत्रेण विप्रेन्द्र पवित्राण्यारभेत्ततः ॥ ११ ॥ [मण्डले प्रतिमन्त्रं समर्पणीयपवित्रसङ्ख्या ] मूलमन्त्रादिसर्वस्य मन्त्रचक्रस्य नारद । आणि त्रीण्यथवा द्वे द्वे एकैकं सत्यसम्भवे ॥ १२ ॥ पवित्रकं तु प्रत्येकमनुकल्पेषु नारद । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy