SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४६ www.kobatirth.org जयाख्यसंहिता Acharya Shri Kailassagarsuri Gyanmandir देवं चक्रस्थितं चक्रं [ अथ होमविधानम् ] ततो होमं समारभेत् । तिलैर्धृतसमायुक्तैः द्रव्यैः सर्वैश्च याज्ञिकैः ।। १६१ ।। सुगन्धाज्य तैश्चैव कुर्वीत विधिवत्ततः । [लक्ष्म्यादीनां होमसङ्ख्याविधानम् ] मूलमन्त्राच्चतुर्थांशं लक्ष्म्यादीनां च होमयेत् ।। १६२ ।। अङ्गानां शक्तिहोमाच्च अर्ध तु जुहुयात्ततः । तदर्धेन तु वक्त्राणां होमं कुर्याद्विजोत्तम ।। १६३ ॥ वक्त्रेभ्यः कौस्तुभादीनामर्थं तु परिहोमयेत् । सादीनां तदर्धे तु तेभ्यश्चार्ध परेऽक्षरे || १६४ ॥ अर्धमशसंयुक्तमधिकं चाग्रवर्तिनाम् । [ जपानुगुण्येन होमस्य कर्तव्यता ] जपकाले यथा होमे कर्तव्यं सिद्धिमिच्छता ।। १६५ ।। एवं ज्ञात्वा ततः कुर्यात्कोटिहोमाच्छतावधि । यस्मादतर्पितो मन्त्रो न कदाचित्फलमदः ॥ १६६ ॥ कामैरवश्यफलदैर्देशकालसमुद्भवैः । [ होमद्रव्यनिरूपणम् ] तिलैर्घृतेन पयसा दना वा पायसेन तु ॥ १६७ ॥ सिद्धानैः साधितैर्भक्ष्यैव जळाजैश्व तण्डुलैः । मूलैः फलैः पल्लवैर्वा सुप्रशस्तैश्व कोमलैः ॥ १६८ ॥ सुगन्धैः स्थळपद्माद्यैः पुष्पैर्विप्र सितादिकैः । गुग्गुळेना ज्यामिश्रेण साज्यश्रीवेष्टकेन वा ॥ १६९ ॥ धात्रीफलैर्वा सरसैरुत्पलैथ शुभैस्तथा । सुसितैः सितररक्तैश्च पद्यैर्बिल्यैः सुशोभनैः ॥ १७० ॥ दुर्वाकाण्डैरभग्राग्रैः दन्तिसद्दन्तनिर्मलैः । एघोंभिर्ब्रह्मवृक्षोत्यैः क्षीरद्रुममयैस्तथा ।। १७१ ।। अमृता क्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः । अच्छिन्नाग्रा भग्नाश्च कण्टकैः परिवर्जिताः ॥ १७२ ॥ सर्वास्त्रिमधुरक्ताश्च घृतयुक्तास्तु वा पुनः । For Private and Personal Use Only [प. १९
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy