SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ११] अग्निकार्यविधानम् १४७ [ होमद्रव्यमेदेन फलमेदः] आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ॥ १७३ ॥ घृतेन पयसा दधा होमस्तृप्तिं प्रयच्छति । पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ॥ १७४ ॥ बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मनराड् भवेत् । प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः॥ १७५ ॥ पल्लवैः फल मूलैश्च होमस्तुष्टिं प्रयच्छति । जहाति चापमृत्युं च रोगांचोपशमं नयेत् ॥ १७६ ॥ तर्पितः स्थलपद्माथैः पुष्पैश्वान्यैः सितादिकैः। सौभाग्यमतुलं विम अचिरात्संप्रयच्छति ॥ १७७ ॥ गुग्गुल्वाधैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा । आज्याक्तैः पद्मबीजैश्च लक्ष्मी शीघं प्रयच्छति ॥ १७८ ॥ उत्पलैवेश्यकामस्तु भोगकामश्च होमयेत् । दूर्वामृताभिोमेन आयुषो वृद्धिमाप्नुयात् ॥ १७९ ॥ एघोभिश्च शुभैोमादोषशान्तिपदः प्रभुः। [आहुतिप्रमाणभेदः ] तिलानां शस्यते होमः सततं मृगमुद्रया ॥ १८० ॥ घृतस्य काषि(र्ष ?)को होमः क्षीरस्य च विशेषतः । शुक्तिमात्राहुतिर्दधः प्रसूतिः पायसस्य च ॥ १८१॥ ग्रासार्धमात्रमन्नानां भक्ष्याणां स्वप्रमाणतः । सर्वेषामेव बीजाना मुष्टिना होममाचरेत् ॥ १८२ ॥ अग्रालिस्तु लाजानां शालीनां पञ्चकं हुनेत् (१)। फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ १८३ ॥ त्रितीय मूलखण्डानां पुष्पाणां स्वप्रमाणतः। कर्कन्धुमात्रगुळिका होतव्या गुग्गुलैस्सदा ॥ १८४ ॥ धात्रीफलप्रमाणां वा संभवे सति होमयेत् । दूर्वाकाण्डानि विमेन्द्र चतुरष्टाइलानि वा ॥ १८५ ॥ समित्सदेशमानेन समच्छेदा स्वगन्विता । [ स्वाहाकार वषट्कार-वौषट्कारादिप्रयोगे निमित्तभेदनिरूपणम् ] स्वाहाकारं सदा होमे पूर्णायां वौपडेव च ॥ १८६ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy