SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४५ प. १५] अग्निकार्यविधानम् चतुर्भुज चतुर्वक्त्रं शङ्खचक्रगदाजिनम् । कुण्डमध्यस्थितं ध्यात्वा उदयार्कसमप्रभम् ॥ १५० ॥ [ज्वालामार्गेण हृदये प्रविष्टत्वभावनम् ] तत्र तज्जनितं(तां ?) कुण्डाज्ज्वालामार्गेण चागताम् ।। परानन्दप्रकाशाभांनासिक्या(?)द्वादशावधि ॥ १५१ ॥ ततोऽवतारयोगेन प्रविष्टां भावयेदृदि । - [अथ संस्कृतस्याग्नेः पूजनम् ] संस्कृतस्याथ वै वढेः पूजां कृत्वा तु भक्तितः ॥ १५२ ॥ पुष्पैधूपेन दना च तिलैरक्षतमिश्रितैः । अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ॥ १५३ ॥ संपूर्णहृदयेनैव स्वमत्रेणानलं ततः। तर्पयेत यथाशक्ति तिलाज्याचैरनुक्रमात् ।। १५४ ॥ अग्नेः पूर्णाहुतिं दत्वा वौषडन्तां घृतेन च । [अग्निमध्ये देवस्य पूजनम् ] ततः पूजा प्रकर्तव्या देवस्याग्रस्तु मध्यतः ॥ १५५ ॥ तत्र प्रथमं वन्हेः स्मरणप्रकारः] पूर्व तं च स्मरेद्वह्नि साकारं निष्कळप्रभम् । स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ॥ १५६ ॥ सर्वतः करवाक्पादं सर्वतोऽक्षिशिरोमुखम् । कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् ॥ १५७ ।। कुण्डमापूरयन्सर्वं सर्वाकृत्या च सर्वतः । एवं हि विततो व्यापी निराकारः सुदीप्तिमान् ॥ १५८॥ [व्योमवद्व्यापकतया भावितस्याग्नेमध्ये देवयजनम् ] बहिं तु व्योमवद्ध्यात्वा तन्मध्ये पूजयेत्लभुम् । गन्धपुष्पादिना चैव [अस्त्रादियजनम् ] ततोऽलं कवचं यजेत् ॥ १५९ ॥ दक्षिणे बाहुमार्गे तु अनिरुद्धसमीपतः । अमीषोमात्मकं तत्र आत्मरक्षार्थमेव च ॥ १६० ॥ 1 धि C. L. श Y. १९ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy