SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ जयाख्यसंहिता [प. १५ उदग्दिअध्यतो याम्ये स्थितैका लेलिहाऽभिधा । [वक्त्रार्चिषां बीजगणः] आसां बीजगणं विश्वं वह्निबीजावसानकम् ॥ १४० ॥ पूर्वोदितक्रमेणैव प्रणवाचं नमोऽन्तकम् । [अथ सीमन्तः ] अव्यक्ताश्च तदन्तस्थाः शिरःपाण्यादयोऽखिलाः ॥१४१॥ स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये । विभागकल्पना तेषां सीमन्तं तदुदाहृतम् ॥ १४२ ॥ [अथ वक्रनिर्यासः ] नरसिमादयो वक्त्राः स्फुरत्तारकसनिभाः। शक्तिचैतन्यमध्यस्थाः सा च शक्तिस्तदात्मना ॥१४३॥ सम्यक् परिणता विप्र तस्मात्ता निष्क्रमन्ति वै । स्वस्वस्थाने स्ववीर्येण वक्त्रनिर्यास उच्यते ॥१४४॥ [अथ निष्कामः मुखचासो (से) न निर्यातध्यानं ' श्रीकृक्षिगोचरात् । निष्कामः सह वै वहेः संस्कारो जुहुयाच तम् ॥१४५॥ [अथ जातकम् ] निस्मृतस्य च वै गर्भाज्जातकं तदुदाहृतम् । [प्राशनम् ] 'हिरण्यमधुसर्पिभ्यां स्नानं संप्राशनं द्विज ॥ १४६ ॥ [ नामकरणम् ] कुर्यातदनु वै नाम जातस्याने प्रयत्नतः। नामकारावसानं च प्रणवं वैष्णवागये ॥ १४७॥ [भोगः] अनमाशनपूर्वस्तु भोगो दारावसानिकः। अभ्यङ्ग एकः संस्कारो होतव्यः पूर्ववद्विज ॥१४८॥ [अथाधिकारः] ततोऽधिकारसंज्ञस्तु संस्कारो बहुरूपकृत् । [उक्तसंस्कारसंस्कृतस्यानेनारायणत्वेन ध्यानम् ] इति संस्कारसंशुद्धं वह्नि नारायणात्मकम् ॥ १४९ ॥ Iत A. हिरण्येत्यस्यार्धस्य नामकारावसानं चेत्यस्यास्यानन्तरं पाठः समुचितः प्रतिभाति । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy