________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १ ]
शास्त्रारम्भप्रयोजनम् पौष्करे' ब्रह्मकल्पे तु प्रत्यक्षस्थेऽप्यघोक्षजे ॥ ७० ॥ कामक्रोधविनिर्मुक्त मद्धे तु पितामहे । स्थिते निष्कण्टके सम्यक्त्रैलोक्ये सचराचरे ॥ ७१॥ संभवृद्ध तथा धर्मे अधर्मे नाशमागते । नारदेन यथा पृष्टो देवः कमललोचनः ॥ ७२ ॥ जयार्थमपि भक्तानां हितार्थमपि चात्मनः । अनुष्टुप्छन्दोबद्धेन' सारासारतरा शुभा ॥ ७३ ॥ प्रोक्ता त्रैलोक्यगुरुणा पृच्छते नारदाय तु । सारभूतं समुद्धत्य संहिताऽमृतगर्भिणी ॥ ७४ ॥ सर्वज्ञत्वगुणेनैव कृत्स्नं ज्ञात्वा च तत्त्वतः । सार्धकोटिप्रमाणं तु ज्ञातृज्ञानोपबृंहितम् ॥ ७५ ॥ जयाव्यं 'निषदं तन्त्रं ब्रह्ममूलाद्विनिस्मृतम् । अमूर्चाद्गगनाथद्वत् निर्घातो जायते स्वयम् ॥७६ ॥ शान्तात्संविन्मयात्तद्वच्छास्त्रं शब्दात्म 'चोत्थितम् । अविकारमसङ्कल्पं यद्रूपं तत्परं विभोः ।। ७७ ॥ यद्विकारं जगद्धातुश्शब्दब्रह्मेति तत्स्मृतम् । ततःप्रभृति कालाच लोकेऽस्मिन्मुनिसत्तमाः ॥ ७८ ॥ जयेति विमलं नाम प्रणीतं विश्वकर्मणा । I. पुष्करे. S. 2 यं. A 3 नै. A 4 त्मनो. A.
For Private and Personal Use Only