SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प.१ [ अधिकः पाठः] + पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । इति सर्वत्र विख्यातं भगवच्छास्त्रगौरवम् ॥१॥ सात्वतं पौष्करं चैव जयाख्यं तन्त्रमुत्तमम् । रत्नत्रयामिति ख्यातं तद्विशेष इहोच्यते ॥२॥ सारं सात्वतशास्त्रस्य रहस्यं माज्ञसंमतम् । रत्नत्रयमिदं साक्षाद्भगवद्वक्रनिःसृतम् ॥३॥ प्रवर्तितं तथैवेदमन्यूनानधिकत्वतः। . अन्यान्यानि तु तन्त्राणि भगवन्मुखनिर्गतम् ॥४॥ सारं समुपजीव्यैव समासव्यासधारणैः । व्याख्योपबृंहणन्यायाद्यापितानि तथा तथा ॥५॥ व्याख्यामूलनयेनैषां गौरवं सम्प्रतिष्ठितम् । तन्त्रेऽप्यष्टोत्तरशते पारमेश्वरसंहिता ॥६॥ पौष्करार्थविवृत्यर्था व्याख्यारूपाऽवतारिता । सात्वतस्य विवृत्यर्थमीश्वरं तन्त्रमुत्तमम् ॥७॥ जयाख्यस्यास्य तन्त्रस्य व्याख्यानं पायमुच्यते । भगवद्व्यक्तिदेशेषु स्वयंव्यक्तेषु भूतले ॥८॥ अष्टोत्तरशते मुख्यं रत्नभूतं चतुष्टयम् । श्रीरङ्गं वेंकटाद्रिश्च हस्तिशैलस्ततः परम् ॥९॥ ततो नारायणाद्रिश्च दिव्यस्थानचतुष्टयम् । वेंकटादि विनाऽन्येषु देवदेवस्य धामम् ॥१०॥ रत्नेषु त्रिषु रत्नानि त्रीणि तन्त्राण्युपासते । मूलव्याख्यानरूपत्वादुपजीव्यं परस्परम् ॥११॥ तन्त्रत्रयमिदं विद्यादेकशास्त्रं तथा बुधः । सात्वतं यदुशैलेन्द्र श्रीरङ्गे पौष्करं तथा ॥ १२ ॥ हस्तिशैले जयाख्यं च साम्राज्यमधितिष्ठति । पायतन्त्रं हस्तिशैले श्रीरङ्गे पारमेश्वरम् ॥१३॥ + अयं तु कुण्डलितः पाठः प्राचीनेषु बहुषु कोशेषु नोपलभ्यते, पटलस्यास्यान्ते कैश्चित्प्रक्षिप्तः स्यात्, अथाऽपि ( Adyar Library Ms. ) यथोपलम्भं प्राकव्यं नीतः For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy