SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ ६ इष्टार्थसिद्ध्यै दृष्टान्तो निदर्शनम् । ७ प्रकृताप्रकृतानां धर्मैक्यं दीपकम् । ८ सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः । ९ व्यङ्गयस्योक्तिः पर्यायोक्तम् । १० विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः । ११ विवक्षितस्य निषेध इवोपमानस्याऽऽक्षेपश्चाक्षेपः । १२ अर्थानां विरोधाभासो विरोधः । १३ सहार्थबलाद्धर्मस्यान्वयः सहोक्तिः । १४ श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । १५ स्वभावाख्यानं जातिः । १६ स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः । १७ वाक्यस्यार्थनेकार्थता श्लेषः । १८ उत्कर्षापकर्ष हेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः । १९ विशेषस्य सामान्येन साधर्म्यवैधम्र्म्याभ्यां समर्थनमर्थान्तरन्यासः । २० स्तुत्यै संशयोक्तिः ससंदेहः । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy