SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७८ ज्योतिर्विज्ञानशब्दकोषः त्रयोदशपर्यायाः - त्रयोदश, त्र्यधिकदश, सानलदर्श, एतेऽन्नन्ता:, त्रिलिङ्गाः । त्रयोदशवाचकशब्दाः - गुणाः ', ताम्बुलानि, विश्वेदेवाः, विश्वघत्रपक्षः श्चैते त्रयोदशवाचकशब्दाः। चतुर्दशपर्यायाः - चतुर्दश (अन्) (त्रि०ब०), चतुरधिकदश (अन्) (त्रि०ब०), द्विसप्त (अन्) (त्रि०ब०), द्विसप्तकम् ( त्रि०)। Acharya Shri Kailassagarsuri Gyanmandir - चतुर्दशवाचकशब्दाः – इन्द्रनाम, त्रिदिवा:, ध्रुवतारकाः, भुवनानि, मनवः, रत्नसञ्ज्ञा, राजानः, विद्या:, वैकुण्ठाः, शक्वरी (स्त्री०) (छ०जा०वि०) चेत्येते चतुर्दशवाचकाः शब्दाः । पञ्चदशपर्यायाः - पञ्चदश (अन्) (त्रि०ब०), पञ्चाधिकदश (अन्) (त्रि०ब० ), त्रिपञ्च (अन्) (त्रि०ब०), त्रिपञ्चकम् (त्रि०), सेषुदश (अन्) (त्रि०ब०)। पञ्चदशवाचकशब्दाः -- अतिशक्वरी (स्त्री०) (छ०जा०वि०) तिथिसञ्ज्ञा, दिनाख्या, सामिधेनी, चेत्येते पञ्चदशवाचकशब्दाः । षोडशपर्यायाः - षोडश (अन्) (त्रि०ब०), षोडश ( पु०ब०), नित्यबहुवचनान्ताः, एकाधिक पञ्चदशसंख्या, चतुश्चतुष्कम् (त्रि०), द्व्यष्ट (त्रि०ब०), षडधिकदश (अन्) (त्रि०ब० ) । षोडशवाचकशब्दा:- अष्टिः (स्त्री०) (छ०जा०वि०), कर्कटपादाः (पुं०) कला: (स्त्री०), चन्द्रकला : (स्त्री०), चतुष्कृतिः (स्त्री०), चतुर्वर्ग: (पु०), नृपाश्चेत्येते षोडशवाचकाः शब्दाः । सप्तदशपर्यायाः -- सप्तदश, सप्ताधिकदश, सागदश एतेऽन्नन्ता: त्रिलिङ्गाः । (१) उक्तं च (१) मानुष्य, (२) वरवंशजन्म, (३) विभवो, (४) दीर्घायु, (५) रारोग्यना, (६) सन्मित्रं, (७) सुसुतः, (८) सती प्रियतमा, (९) भक्तिश्च नारायणे। (१०) विद्वत्त्वं, (११) सुजनत्व, (१२) मिन्द्रियजयं, सत्पात्रदाने रतिस्ते पुण्येन विना त्रयोदश गुणाः संसारिणां दुर्लभाः ॥ इति ग्रन्थान्तरे । (२) विश्वेदेवभेदा: - (१) ऋतु, (२) दक्ष:, (३) सत्य:, (४) वसु:, (५) काम:, (६) काल:, (७) धूरि:, (८) लोचन:, (९) पुरूरव. (१०) आर्द्रव, (११) धनु:, (१२) रुचि:, (१३) रुद्रश्चैते त्रयोदश विश्वेदेवाः सन्ति । तदुक्तं हेमाद्री शंखबृहस्पती दृष्टिश्राद्धे ऋतूदक्षौ सत्यौ नान्दीमुखे वसू । सापिण्ड्यके कामकालौ तीर्थे च धूरिलोचनौ ।। पुरूरवाद्रवौ चैतौ पार्वणे समुदाहृतौ । हेमश्राद्धे धनरुची कथ्येते विश्वदेवकौ।। एकोद्दिष्टे रुद्रसंज्ञो विश्वेदेवास्त्रयोदश इति ।। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy