________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
ज्योतिर्विज्ञानशब्दकोषः मूर्त्तकालस्यान्यभेदाः-(१) गुर्वक्षरम्, (२) असुः, (३) पलम्,(४) घटी, (५) क्षणः, (६) दिनम् (नाक्षत्रम्), (७) मास:, (८) वर्षम्, चैते मूर्तकालस्यान्यभेदाः स्युः।
तदुक्तम्-'योऽक्ष्णोनिमेषस्य खरामभागः स तत्परस्तच्छतभाग उक्ता। त्रुटिर्निमेषैधृतिभिश्च काष्ठा तत्रिंशता सद्गणकैः कलोक्ता।। त्रिंशत्कलाऽऽी घटिका क्षण: स्यानाडीद्वयं तैः खगुणैर्दिनं च। गुर्वक्षरैः खेन्दमितैरसस्तैः षड्भिः पलं तैर्घटिकाखषडिभः। स्याद्वा घटीषष्टिरह; खरामैर्मासो दिनैस्तैर्द्विकुभिश्च वर्षम्।। इति सिद्धान्तशिरोमणौ। अपि च–'षड्भिः प्राणैर्विनाडी स्यात्तत्वष्ट्या नाडिका स्मृता। नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्। तत्रिंशता भवेन्मासः, इति। मासै‘दशभिर्वर्ष दिव्यं तदह उच्यते। इति च-सू. सि. १/११,१२,१३।
मासभेदाः-(१) चान्द्रः, (२) सौरः, (३) सावनः (४) नाक्षत्र: (आर्भः) चैते मासस्य चत्वारो भेदाः स्युः।
तदुक्तम्-'दर्शावधिं मासमुशन्ति चान्द्रं सौरं तथा भास्करराशिचारात्। त्रिंशद्दिनं सावनसंज्ञमार्या नाक्षत्रमिन्दोभंगणाश्रयाच्चा' इति ग्रन्थान्तरे। 'तत्रिंशता भवेन्मास: सावनोऽकोंदयैस्तथा।
ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यते। मासैदशभिर्वर्ष दिव्यं तदह उच्यते। इति च सू. सि. १/१२,१३।
चान्द्रमासभेदौ-(१) दर्शान्त:, (२) पूर्णिमान्तश्चैतौ चान्द्रमासस्य द्वौ भेदौ स्याताम्। तदुक्तम्-'चान्द्रस्तु द्विविधो मासो दर्शान्त: पूर्णिमान्तिमः। देवार्थे पौर्णमास्यन्तो दर्शान्तः पितृकर्मणि' इति ग्रन्थान्तरे।
वर्षभेदाः-(१) ब्राह्मम्, (२) दिव्यम् (दैवम्), (३) पित्र्यम्, (पैत्रम्) (४) प्राजापत्यम् (मानवम्), (५) गौरवम् (बार्हस्पत्यं, जैवम्), (६) सौरम्, (७) सावनम्, (८) चान्द्रम् (ऐन्दवम्), (९) आर्भम् (नाक्षत्रम्), चैतानि वर्षाणां नवमानानि स्युः।
तदुक्तम्-'ब्राह्यं दिव्यं तथा पित्र्यं प्राजापत्यं (मानवं) गुरोस्तथा (जैवम्)। सौरं च सावनं चान्द्रमाक्षं मानानि वै नवा' इति सू. सि. अपि च- एवं पृथङ्मानव-दैव-जैव-पैत्रा-ऽऽक्ष-सौरे-न्दव-सावनानि। ब्राह्यं च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमानात्। ज्ञेयं विमित्रं तु मनुष्यमानं मानैश्चतुभिर्व्यवहारवृत्तेः। एवं सौरचान्द्र-सावन-नाक्षत्रमानैश्चतुर्भिरभिर्मिश्रितैर्मनुष्यमानं ज्ञेयम् इति सि. शि.।
For Private and Personal Use Only