SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः ६७ उक्तं च-'गव्यूति: स्त्री क्रोशयुगम् ' इत्यमरः। सु०व्या०२/१/११५/१८ 'धन्वन्तरसहस्र तु क्रोशः क्रोशद्वयं पुनः। गव्यतं स्त्री तु गव्यूतिगोरुतं गोमतं च तत्।' इति वाचस्पतिः। धनुर्हस्तचुष्टयम्। द्वाभ्यां धनुः सहस्राभ्यां गव्यूति: पुंसि भाषितः। इति शब्दार्णवः इत्यमरसु०व्या०२/१/११६/१८। योजनप०-चतुः क्रोशी, क्रोशचतुष्टयम्, योजनम्। उक्तं च–' योजनं परमात्मनि। चतुष्क्रोश्यां च योगे च'। इति मेदिन्याम् ९१/११-१२। दिनमानपर्यायाः-अहर्मितिः दिनप्रमाणम्, दिनमानम्, दिनमिति:, दिवसप्रमाणम्, दिवसमानम्, दिवसमितिः, धुप्रमाणम्, घुमानम्, धुमिति:, वासरप्रमाणम्, वासरमानम्, वासरमितिः। दिनार्द्धप०-अहर्दलम्, घस्रार्द्धम्, दिनखण्डम्, दिनदलम्, दिनशकलम्, दिनार्द्धम्, दिवसखण्डम्, दिवसदलम्, दिवसशकलम् दिवसार्द्धम्, वासरखण्डम्, वासरदलम्, वासरशकलम्, वासरार्द्धम्। रात्रिमानप०-रजनीप्रमाणम्, रजनीमानम्, रजनीमिति: रात्रिप्रमाणम्, रात्रिमानम्, रात्रिमिति:, निशाप्रमाणम्, निशामानम्, निशामिति:, शर्वरीमानम् तमीमानम्। अर्द्धरात्रिमानप०–अर्द्धरात्र:, निशीथः, निशीथमानम्। राज्यद्धप०-निशाखण्डम्, निशादलम्, निशार्द्धम्, निशाशकलम्, रात्रिखण्डम्, रात्रिदलम्, रात्रिशकलम्, रात्र्यर्द्धम्, शर्वरीखण्डम्, शर्वरीदलम्, शर्वरीशकलम्, शर्वर्यर्द्धम्। कालप०-अनेहा, काल:, दिष्टः, शेषस्तु कालवगें। कालमानप०-अनेहोमानम्, कालमानम्, दिष्टमितिः, समयप्रमाणम्। कालभेदौ-(१) मूर्तः, (२) अमूर्तश्चेत्येतौ कालस्य द्वौ भेदौ स्याताम्। तदुक्तम्-'प्राणादिः कथितो मूर्तस्त्र्युट्याद्योऽमूर्तसंज्ञक:'। इति सूर्यसिद्धान्ते १/११।। कालप्रभेदाः-(१) ब्राह्मम, (२) दैवम्, (३) मानवं चैते कालस्य त्रय: प्रभेदाः स्युः। मूर्त्तकालभेदाः।-(१) निमेष:, (२) काष्ठा, (३) कला, (४) घटिका, (५) मुहूर्तः, (६) दिनम् (नाक्षत्रम्), चैते मूर्तकालस्य षड्भेदाः स्युः। (१) मूर्तकालभेदानां न्यास:१८ निमेषैः = १ काष्ठा। ३०काष्ठाभिः = १ कला। ३०कलाभिः = १ घटिका। २ घटिकाभ्यां = १ मुहूर्तः। ३० मुहूर्ते: = १ दिनम् (नाक्षत्रम्)। मूर्त्तकालान्यभेदानां न्यास:१०गुर्वक्षरैः = १ असुः (प्राण:) ६ असुभिः = १ पलम्। ६० पलैः = १ घटी। ६०घटीभिः = १ दिनम् (नाक्षत्रम्) ३०दिनैः = १ मासः। १२ मासैः = १ वर्षम्। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy