SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ ज्योतिर्विज्ञानशब्दकोषः देवमातृपर्याया:-अदितिः, ऋनामा, शेषस्तु रवौ। स्वर्गपर्यायाः-अमर्त्यभवनम्, अवरोहः, ऊर्ध्वलोकः, खम, गौ: (गो), तविषः, ताविष: त्रिदशालयः, त्रिदशावास:, त्रिदिवः, त्रिपिष्टपम् (न०), त्रिविष्टपम् (न०) दिदिवि:, दिवम्, द्यौः (दिव), दीदिवि:, देवलोकः, देवसद्मा (अन्), धुः (अ०), द्यौः (द्यो), नभः (अस्), नाकः, फलोदयः, भुवि: (इस्) (अ०), भोगभूमि:, मन्दरः, मेरुपृष्ठम्, मेरुशृङ्गः, वासवावासः, शक्रवास:, शक्रभवनम्, सुरसा (अन्), सुरालयः, सुरावासः, सुराश्रयः, सैरिकः, सैरिभः, सौरिकः, स्वः (र्) (अ०), स्वर्गः, स्वलोकः, इति। मेरुपर्यायाः--कनकाचल:, कर्णिकाचलः, कर्णिकाद्रिः, काञ्चनगिरिः, गोधुक (ह्), देवगिरिः, मणिसानुः, महामेरुः, मेरुः, रत्नसानुः, सुमेरु, सुरालयः, स्वर्गिगिरिः, स्वर्गिरिः, स्वर्णाद्रिः, हेमाद्रिः।। देवविमानपर्यायाः-देवयानम्, विमानः (पुं०न०), व्योमयानम्, सुरयानम्। सभापर्यायाः-आस्था, आस्थानम्, आस्थानी, गोष्ठी, घटा, परिषद्, पर्षद्, सद: (स्), (स्त्री०न०), संसद्, सभा, समाजः, समितिः। देवसभापर्यायाः-देवसभा, सुधर्मा, सुरसभा। देवनदीपर्यायाः-मन्दाकिनी, वियद्गङ्गा, सुरदीर्घिका, स्वर्णदी। देवतरुभेदाः-(१) कल्पवृक्ष:, (२) पारिजातकः, (३) मन्दार:, (४) सन्तानः, (५) हरिचन्दन: (पुं०न०), चैते पञ्च देवतरवः सन्तिः । देवो (दिव्यो) द्यानपर्यायाः-चैत्ररथम्, देवोद्यानम्, मिश्रकम्, वैभ्राजम्, सिध्रकावणम्। देववैद्यपर्यायाः-अब्धिजौ, अर्कजौ, अश्विनीकुमारी, अश्विनीपुत्रौ, अश्विनीसुतौ, अश्विनौ, आश्विनेयौ, आश्विनौ, गदागदौ, गदान्तकौ, दस्रो, देवचिकित्सको, देवभिषजौ, देववैद्यौ, नासत्यौ, नासिक्यौ, पुष्करस्रजौ, प्रवरवाहनौ, यज्ञवहौ, यमलौ, यमौ, युजौ, रासभवाहनौ, वडवासुतौ, वरवाहनो, वरानाको, वाडवेयौ, सुरचिकित्सको, स्ववैद्यौ। वैद्यपर्यायाः-अगदङ्कारः, आयुर्वेदकः, आयुर्वेदिकः, आयुर्वेदी (इन्), चिकित्सकः, दोषज्ञः, भिषक् (ज्), रोगहारी (इन्), वैद्यः। देववर्द्धकिपर्यायाः-अमरशिल्पी (इन्), त्वष्टा (ष्ट), देववर्द्धकिः, धुवर्द्धकिः, भौमनः, विश्वकर्मा (अन्), विश्वकृत् (त्), सुरशिल्पी (इन्)। वर्द्धकिपर्यायाः-काष्ठतट (क्ष), तक्षा (अन्), त्वष्टा (ष्ट्र), रथकारः, रथकृत् (त्), वर्द्धकिः, स्थपतिः। ऋषिपर्यायाः-ऋषिः, मंत्रद्रष्टा (ष्ट), मुनिः, मौनव्रती (इन्), मौनी (इन्), रिषि: (हलादिश्च), (विद्याविदग्धमतयो रिषयः प्रसिद्धा: इति प्रयोगात्), वार्चयमः, व्रती (इन्), शंसितव्रतः, शापास्त्र:, सत्यवचा: (अस्)। __ ऋषिभेदाः-(१) ब्रह्मर्षिः (वसिष्ठाद्याः), (२) देवर्षिः (कचादयः), (३) महर्षिः (व्यासादयः), (४) परमर्षिः (भेलाद्याः), (५) काण्डर्षिः (जैमिन्याद्याः), (६) श्रुतर्षिः (सुश्रु For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy