SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१) व्याख्या-किंच समुच्चये, अनुमतं सम्मतं हरिभद्रसूरेरावश्यकादिवृत्तिकत्तः, किमपि न सर्व, तीर्थस्नानादिकं लौकिकं लोकाचीर्ण, यस्माणितं प्रतिपादितं विम्बस्थापने विम्बस्थापनपञ्चाशके । किं भणितं ? तदाह'विहिमागमलोगनीए'त्ति विधानं वक्ष्ये अभिधास्ये आगमनीत्या लोकनीत्या चेति गाथार्थः ॥ यद्यत्र लोकग्रहणं ततः किम् ? इत्याहलोयगहणाओसिरीअभयदेवसूरीहिं तत्थ वक्वायं । अविरुद्धं लोइयमवि कीरइ पासायकरणाई ॥ ४२ ॥ व्याख्या-लोकग्रहणाद् लोकशब्दप्रतिपादनात् श्रीअभयदेवसूरिभिभगवत्यादिशात्रवृत्तिकारिभिस्तत्र विम्बस्थापनपश्चाशकवृत्तौ व्याख्यातं विवृतं, किं तत् ? इत्याह-अविरुद्धमदृष्यं लौकिकमपि परदर्शनसत्कमपि न केवलं निजामित्यपिशब्दार्थः, क्रियते विधीयते प्रासादकरणादि श्रीवत्सादिप्रासादविधानादि । आदिशब्दाच्छेषाविरुद्धपरिग्रहः । इदमत्र हृदयं-यः किल लौकिकर्निजदेवकुले वास्तुविद्योक्तप्रासादादिः कार्यते सोऽस्माकमपि देवसदने विधीयते न तत्र मिथ्यात्वं, मालापीयमस्माभिरस्मिन् आदिशब्दे क्षिप्यते, अतोऽनवद्येति गाथार्थः। समाप्तोऽयं माघमालाप्रतिपादकः सप्तमोऽधिकारः ॥ साम्पतमष्टमः चउवीसवयाई पडिमाओ जिणाण केई वारिति । तंपि न जुत्तं जम्हा एए दोसा पसन्जन्ति ॥ ४३ ॥ व्याख्या-चतुर्विंशतिपटकादिप्रतिमाः, आदिशब्दाज्जिनत्रयादिपरिग्रहः, प्रतिमा जिनप्रतिकृतीः, जिनानां तीर्थकृतां केऽपि न सर्वे वारयन्ति निषेधयन्ति, नैताः क्रियन्त इत्यर्थः तदपि न केवलं पूर्वोक्तमित्यपेरर्थः, नेति निषेधे, युक्तं संगतम्, यस्मादेते वक्ष्यमाणा दोषा दूषणानि प्रसज्यन्ते भवन्तीति गाथार्थः ॥ पुव्वायरणभंगो जिणाण आसायणा विपडिवत्ती; सद्धाभंगो मुद्धाणं होंति एमाइया दोसा॥ ४४ ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy