SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०) तस्य फलमाह-नो निषेधे, लभते प्राप्नोति येन कर्मणोपार्जितेनेच्छितमभिलषितं लाभं धनधान्यादिकम् । अयमभिप्रायः-इयं माघमाला जिनपूजा न भवति भवति वा ? यदि न भवति, ततो निर्दोषा वारयन्तोपि यूयम् । भवति चेत् , ततो निश्चितं मद्वर्णितफलं भवतां हठादागच्छतीति गाथार्थः ॥ अत्रापि जीवोपदेशमाह मा मा तुमं णिवारसु पूर्य रे जीव ! जिणवरिंदाणं । जइ सयलसोक्खवल्लीणमप्पणो महसि उल्लासं ॥ ३९ ॥ व्याख्या-मा मेति अत्यादरकरणाथ वीप्सानिर्देशो निषेधार्थः, त्वं भवान् निवारय निषेधय पूजां सपर्या, रे जीवेत्यामत्रणे, जिनवरेन्द्राणां सर्वप्रतिकृतीनाम् । यदीति स्वाभिप्रायसूचकार्थः, सकलसौख्यवल्लीनां समस्तसातलतानामात्मनो जीवस्य महसि वाञ्छस्योल्लासं वृद्धिमिति गाथार्थः ।। तथा कोऽयं तवाभिनिवेशः? यदुत लौकिकं न क्रियते । अविरुद्धं तदपि विधीयते इति दर्शयन् विशेषावश्योक्तां गाथामाह जं अत्थओ अभिन्नं अन्नत्था सहओ वि तह चेव । तं पि पओसो मोहो विसेसतो जिणमयट्टियाणं ॥ ४० ॥ व्याख्या-यत्किमप्यनवधारितरूपमर्थतोऽभिधेयेन अभिन्नमव्यतिरिक्तं अन्वर्थायुक्ताभिधेयात् शब्दतो वचनतोऽपि तथा चैवाभिन्नमेव तस्मिन् शब्दार्थाभिन्ने जिनवचनमाश्रित्य प्रद्वेषो मत्सरो मोहो मूढतेयं विशेषत आदरेण जिनमतस्थितानाम् । यथा पञ्चैतानि पवित्राणि सर्वेषां धर्माचारिणाम् । आहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥-- इत्यादि । इति गाथार्थः ॥ सूत्रेणैव ससम्बन्ध गाथामाहकिंचाणुमयं हरिभद्दसूरिणो किंवि लोइयं जेण । भणियं बिठवणे विहिमागमलोगनीईए ॥ ४१ ।। For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy