SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९ ) श्रावण | अभिप्रायः- यत्किमपि लौकिकैर्धम्मार्थं विधीयते पूर्वोक्तं तच्छ्रावकस्य कर्त्तुं न युज्यते, माघमालामपि ते आदिशब्दाद् गृहन्तीति भावः ॥ अत्रोत्तरार्थं सार्द्धं किञ्चिदधिकां गाथां पराभिमतयुक्तिसहितामाहतं नो । जं जं लोए कीरइ तं तं जइ सव्वमकज्जं ॥ ३६ ॥ तो जत्ता रहभमणं उववासो देवभवणपूयाई । मा कुह सया तुम्हे लोए किज्जन्ति जुत्तीतो ॥ व्याख्या - तत्परोक्तं नेति निषेधे, यद्यलोके परदर्शने क्रियते तत्तद्यदि सर्व्वं समस्तमकार्य ततस्तस्माद्यात्रा - विशिष्टमहिमा, रथभ्रमणं - जैनस्यन्दनपर्यटनं, उपवासो - भोजनत्यागरूपः, देवभवन पूजादि - तंत्र देवभवनं जिनसदनं, पूजा सपर्या आदिशब्दात्मतिप्रेक्षणकादिग्रहः, मेति निषेधे, कुरुत विधत्त, कर्म्मपदं तु सर्वत्र स्वयं सम्बन्धनीयम्, सदा सर्वदा तुम्हेति यूयं कस्माल्लोके परमते क्रियते विधीयते, युक्तेः कारणादिति गाथार्थः ॥ पराश्वासन पूर्व स्वपक्षस्य पुष्टिमाह- एपि जुज्ज चि जइ सक्खा वारियं भवेज्ज इमं । समईए वारिताण अंतरायं जतो मणियं ॥ ३७ ॥ व्याख्या -- एतदपि भवदुक्तमपि न केवलं मदुक्तम् युज्यते एव घटते एव, यदि साक्षात् प्रकटं वारितं निषिद्धं भवेदिदं मालारोपणं 'माघमाला न क्रियते ' इति स्वमत्या निजाभिप्रायेण वारयतां प्रतिषेधं कुर्व्वतामन्तरायोsटमप्रकृतिविशेषलक्षणं भवतीति गम्यते यस्माद् भणितं गदितं शतककर्म्मग्रन्थ इति शेष इति गाथार्थः ॥ तदेवाह - पाणिवह । ईनिरओ जिणपूया मोक्खमग्गविग्धयरो । अज्जेइ अंतरायं ण लहइ जेणिच्छियं लाभं ॥ ३८ ॥ व्याख्या - प्राणिवधादिनिरतो जीवव्यापादनसक्तः, आदिग्रहणान् मृषावादादिग्रहः । जिनपूजा - सर्वज्ञार्चनं, मोक्षमार्गों यथावस्थितशुद्धप्ररूपणादिलक्षणस्तयोर्विघ्नकरो भञ्जकः । अर्जयति स्वीकरोति अन्तरायं कर्म्मविशेषम् । For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy