SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५२ [ २. १०.३] पनादि शिवं वास्त्वित्यन्तं तद्गृहप्रपदनसंज्ञं भवति । किं सिद्धं भवति. मणिकस्थापनात् प्रागेव बोजानि स्थापयित्वा तुष्णीं प्रविशेदिति । अपिच शास्त्रान्तरेण संस्कृतं विशीर्णं वा पुराणं ग्टहं संस्कृत्य प्रविशतो मणिकप्रतिष्ठापनादि सिध्यति ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir आश्वलायनीये बीजवतो गृहान् प्रपद्येत ॥ २ ॥ गृहानिति बहुवचनं श्राप इतिवत् । बोजवतः प्रपद्येतेत्येतावतैव सिद्धे गृहानिति वचनं यत्र गृहं प्रविशति शास्त्रान्तरसंस्कृतं विशीर्णं वा संस्कृत्य तत्रापि एवं प्रविशेदिति मणिकादि बीजवत्प्रपदनान्तं तत्रापि कुर्यादित्यर्थः । तेन पूर्वव्याख्यापि साध्वी ॥ २ ॥ क्षेचं प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फाल्गुनीभी रोहिण्या वा ॥ ३ ॥ फाल्गुनीभिरित्यत्रापि उत्तराभिरित्येवं सम्बध्यते । तेन त्रीणि नक्षत्राणि । नित्यकर्मणां द्रव्यमाध्यत्वात् द्रव्यार्थं क्षेत्रं प्रकर्षयेत् । चिप्रयोगः स्वयंकृषिनिवृत्त्यर्थः । तथा चानापदि गौतम : 'कृषिवाणिज्ये वा स्वयं कृते' इति । मनुरपि । [ अ ० ४ । ४ । ] 'ऋताम्टताभ्यां जीवेत्तु मृतेन प्रमृतेन वा' इति । [मनु ० ० ४।५ ।] 'प्रमृतं कर्षणं स्मृतम्' इति । श्रक्षसृक्ते चेयमेव वृत्तिरुक्ता. 'अक्षैमा दीव्य कृषिमित् कृषस्व' इति । प्रतिग्रहादयश्चापत्कल्पाः । त्रिषु नक्षत्रेषु कृषिं प्रारभेत । इदं च प्रारम्भदिवसे कुर्यादित्याह ॥ ३ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy