SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ का.] श्राद्धकल्पः। 288 इति चास्मदीये स्नानसूत्रपरिशिष्टे। निर्देशकमश्चामीषामस्मादेव पाठक्रमात् कल्पनीयः । तेन, यादिव्या, इति मन्त्रमुच्चार्य, अमुकगोत्र पितरमुकशर्मन्नेतत्ते अर्थं येचात्र त्वाममु यांश्च त्वमनु तस्मै ते खधा, इत्ययमस्माकमुत्मर्गवाक्यप्रयोगः । यत् पुनः स्मरणम् , "संबन्धं प्रथमं ब्रूयागोत्रं नाम तथैव च । पश्चाद्रूपं विजानीयात् क्रमएष सनातनः” । इति । तदस्मत्प्रयोगव्यतिरिक्तविषयम् । अस्मच्छास्त्रे रूपोल्लेखस्याननुशासनात् । वकृचानां खल्वमावस्ति । “गोत्रनामरूपाणं पिलणमिदमासनम्" इत्याद्याश्वलायनग्टह्यपरिशिष्टदर्शनात् । गोत्रादीनामेतद्विपरीतक्रमेणास्मत्परिशिष्टे पाठाच्च । अनयैव युक्त्या, - "मकारेणैव कर्त्तव्यं गोत्र सर्वत्र धीमता । सकारः कुतपोज्ञेयस्तस्मात् यत्नेन तं वदेत्” । इति वचनोपदिष्टं सगोत्रपदमप्यस्माभिल्लेिखनीयम् । किन्त्वस्मत्परिशिष्टकारानं गोत्रपदमेव । एवमस्मत्परिशिष्टे पिटपदमात्रकीर्तनात् पितरित्यादिकमेव वक्तव्यं नत्वस्मपितरित्यादि। संबन्धिशब्दः खल्वेष खमेव संबन्धिनमुपस्थापयति, इति सुकरोयजमानपित्रादीनामवगमः । कथमन्यथा अस्मदन्नमित्यपि नालिख्यते। अतएव “पदपशिना यूपमनति” “सप्तमं पदं ग्टहाति"-दूत्यत्र सोमक्रयार्थमुपस्थितायाअरुणायाएव पदप्रतिपत्तिरिति सिद्धान्तः । सेोऽयं पदिन्यायोऽत्र शरणम् । अस्मपितरित्याद्युल्लेखे तु शब्दाध्याहारनयोमूलम् । तदेवं नयभेदादुभयमप्युपपन्नम् । तथाचोभयथादर्शनम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy