SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यासंग्रहः। [२ प्र.] याज्ञिकः, सदा-"परिसंवत्सरानहयेयुः” “पुनर्यज्ञविवाहयोश्च”-इति सोकसर्वकाले, मधुपर्केणाईयन्-पूजयन्, ऋषिप्रोकन गोभिलोकेन विधिना, मर्पिषा मधुना दधा-इत्येतत् त्रितयेनार्चयेत् ॥ कसे चितयमासिच्य कसेन परिसंवृतम् । परिश्रितेषु देयः स्यान्मधुपर्कइति ध्रुवम् ॥ ६५ ॥ कसे कांस्यपात्रे, त्रितयम्-सर्पिर्मधु दधि चासिच्य, कंसेन परि सर्वतोभावेन संवृतम्-सम्यगाच्छादितं कृत्वा, परिश्रितेषु-अहणीयस्थ सर्वतः समाश्रितेषु ग्टह्येषु, इत्यर्थः । तथाच वाजसनेयके प्रवचने । “यत्र चाह्र श्रागच्छति, सर्व ग्राह्यादतरे तत्र वेश्यन्ति”-इति । अपर प्राह । 'कटादिना परितः श्रितेषु सर्वतो वेष्टितेषु स्थानेषु', -इति । तदेवं मधुपर्कोदेयः स्यात्, इति ध्रुवं निश्चयः ।। मधुपर्के तथा सेमे असु प्राणाहुतीषु च । अनुच्छिष्टो भवेदिप्रायथा वेदविदोविदुः ॥ ६ ॥ मधुपर्कभक्षणे, सोमभक्षणे, अम-उदके प्रास्येन होमे पूर्वोक्रे, प्राणाइतीषु च-उपनिषदाह्मणेतेषु प्राणव्यानापानसमानोदानरूपपञ्चातिषु, विप्रोनोच्छिष्टाभवति, यथा वेदविदोजानन्ति ॥ प्राणाहुतिषु सोमेषु मधुपर्के तथैव च । आस्यहोमेषु सर्वेषु नाच्छिष्टोभवति हिजः ॥६॥ श्रास्यहोमेषु-“मर्पिरास्येन जुहुयात्”–इत्यादि सूत्रोकेषु । सर्वेषु, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy