SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यासंग्रहः। [२ प्र.] तदेव विवृणेति । आयुष्यम्-आयुषे हितम् , याज्ञिकम्-यज्ञोद्भव पुण्यं तेन कर्मणा नोत्पद्यते-इति । तथा च, संस्कृतं लौकिकमग्निमभिप्रेत्य तत्र होतुः फलवादं वक्ष्यति । लौकिकस्याप्यग्नेः संस्कारात् परं न लौकिकत्वम्, इत्यसङ्गतैषा कल्पना रघुनन्दनस्य । कस्मात् ? । प्रमाणभावात् । तथा त्वस्याभ्युपगमे च लौकिके नौ हातुः फलवचनं न खन्वपि उपपत्स्यते । न खल्वसंस्कृते लौकिके अग्नौ हामं मन्यसे । अपि चैवं सति, “अन्वष्टकावष्टकावदग्नी इला" इति विष्णुसूत्रे अग्रिग्रहणात् पिढयज्ञहोमस्य लौकिकाना निषेधाच्च अन्वष्टकायामनग्निमतां नाधिकारः, इति खोकमपि व्याहन्येत । लौकिकस्याप्यग्नेः संस्कारात् परं लौकिकत्वाभावे तत्रैव होमस्योपपत्तेः कथमनग्निमतां तत्रानधिकारमात्थ । तदास्तां तावदार्षवचनविरोधो यावत् खवचो व्याघातमपि नालोचयमि, दूति किमत्र ब्रूमः। यथा चानग्निमतामप्यस्त्यधिकारोऽन्वष्टकायां तथा ग्टह्यभाव्येऽभिहितमस्माभिः॥ वैदिके लौकिके वाऽपि यज्जुहोति प्रयत्नतः । वैदिके ब्रह्मलोकः स्यात् लौकिके पापनाशनम्॥१४॥ वैदिके लौकिके वा संस्कृते अमो यज्जुहोति, तस्य फलवचनमुक्तरार्द्धम् ॥ स्ववाभिरनिन्द्याभिरभिरक्षतमिश्रितैः । स्नानं चतुर्भिः कलसैः स्त्रीभिः स्त्रों यत्र लावनम्॥१५॥ यत्र विवाहादी स्त्रीभिः स्त्रों कन्यां प्रति प्लावनं विधीयते, तत्र For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy