SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प.] ह्यासंग्रहः । २७ पयोदुग्धम् । यावकं यवागूः । श्राज्यस्याभावे आज्यस्थाने नियुकानामेषामाज्यशब्दोविधीयते। तदनेन “श्राज्यं संस्करते मर्पिस्तेल दधि पयो यवागू वा” इति गोभिलमत्रं व्याख्यातम् ॥ आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते॥१०॥ अनधिश्रयणं दधः शेषाणं श्रयणं स्मृतम् । विधिचोदिते संस्कारे, तद्विषये इत्यर्थः । दध्नोऽधिश्रयणं नास्ति, शेषाणामधिश्रयणं स्मृतमाचार्यैः । श्लिष्टमन्यत् । एवं वाविधिचोदिते संस्कारे कृते मति प्राज्यशब्दाविधीयते, इति गतेन संबन्धः । तत्र विशेषमाह अनधिश्रयणम्-इत्यादि । पूर्ववड्याख्यानम् ॥ यथा सीमन्तिका* नारी पूर्वगर्भेण संस्कृता॥१०॥ एवमाज्यस्य संस्कारः संस्कारे विधिनादिते । यथा सीमन्तिका नारी पूर्वगर्भण-प्रथमगर्भेण संस्कृता भवति;द्वितीयादिगर्भे न पुनः सीमन्तकरणसंस्कारो यथेत्यर्थः । तथाच गोभिलसूत्रम्। “अथ सीमन्तकरणं प्रथमगर्भ" इति । विधिना उक्ने संस्कारे-तद्विषये इत्येतत् । श्राज्यस्य संस्कारोप्येवमेव भवति । संस्कारविधिचोदितः, इति पाठे, संस्कारवियुक्त श्राज्यस्य संस्कारोप्येवमिति व्याख्येयम् । एतदनेनातं भवति। सीमन्तकरणसंस्कारो * सीमन्तिनी,-इति पाठान्तरम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy