SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्टह्यासंग्रहः। [१ प्र.] पवित्रमन्तरे* कृत्वा स्थाल्यामाज्यं समावपेत्॥१०५॥ एतत् सम्पूयनं नाम पश्चादुत्पवनं स्मृतम् | अन्तरे मध्ये पवित्रम् “अनन्तर्गर्भिणं मागं कौशं द्विदलमेवच । प्रादेशमात्रं विजेयं पवित्रं यत्र कुत्रचित् । एतदेव हि पिङ्गेल्या लक्षणं समुदाहृतम् । आज्यस्योत्पवनार्थं यत् तदप्येतावदेव तु"। इति कर्मप्रदीपोतलक्षणं, कृत्वा संस्थाप्य, श्राज्यस्थाल्यामाज्यं प्रक्षिपेत् । तदेतत् सम्पूयनं नाम स्मृतम् । एतदनन्तरमुत्पवनम् । तथाच गोभिलसूत्रम् । “सम्पूयोत्पनात्युदगग्राभ्यां पवित्राभ्याम्” इति ॥ "आज्यं संस्कुरुते” इति सूत्रोक्रमाज्यं व्याकुरुते, अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा ॥ १०६ ॥ चतुर्भिरेव यत् पूतं तदाज्यमितरबृतम् । अमिना अधिश्रयणं, मन्त्रेण-देवस्थत्वा, इत्यादिना ; पवित्रण च यथोक्त लक्षणेनोत्पवन, चक्षुषा वीक्षणम् । एभिश्चतुर्भिर्यत् पूर्त तदाज्यमित्युच्यते । एतदन्यदसंस्कृतं यत् तहतम् ॥ तं वा यदि वा तैलं पयो वा दधि यावकम॥१०७॥ आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते । * अन्तरा,-इति पाठान्तरम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy