SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [म. ७ का. ग्रह्यसूत्रम् । ७१५ “भवनस्य वटः पूर्व जातः स्यात् सार्वकामिकः । उनम्बरस्तथा याम्ये वारुणे पिप्पल: शुभः । प्लनचोत्तरतो धन्यो विपरीतो विपर्यये” । इति चैवमादि ॥०॥ २५ ॥०॥ यदा खल्वेतानश्वत्थादीनुद्धरेत् च्छेदयेद्दा, तदा तद्दोषशान्यर्थन्, एताश्चैव देवता अभियजेत ॥ २६ ॥ एता अनन्तरोका देवता अभियजेत । एवशब्दात् यं वृक्षमुद्धरेत् छेदयेदा तस्यैव देवतामभियजेत, न पुनः सर्वाः । चशब्दः पूर्वोतकल्पेन मम्वन्धकरणार्थः । सम्बन्धकरणस्य प्रयोजनम्,-यदा खचिमे अस्वस्थानस्याः क्रियन्ते, तदेवायं कल्पो यथा स्यात्,इति । वृत्ते चैवं मम्बन्धकरणे, एवशब्दः पूकिप्रकारेण विशेषवोधको द्रष्टव्यः । अथवा । चशब्दः च्छेदनपने मनूतप्रायश्चित्तान्तरानुसन्धानार्थः । कथं नाम ? । एता देवताश्च अभिवजेत, ऋचञ्च जपेत्, इति । तथा च मनुः । “फलदानाञ्च वृक्षाणं छेदने जय्यमृक्शतम् । गुल्मवल्वीलतानाञ्च पुष्पितानाञ्च वीरुधाम्" । इति । कल्पान्तरसमुच्चयार्थमपि चशब्दं वर्णयन्ति । कथं नाम ? । यदि तानस्वस्थानस्यान् न कुर्थात् , तदा, “छिन्द्याद् यदि न तरूं स्तान् तदन्तरे पूजितान् वपेदन्यान् । पुन्नागाशोकारिष्टवकुलपनमान् शमीशालौ” । 42 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy