SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ०१६ www.kobatirth.org " गोभिलीयं Acharya Shri Kailassagarsuri Gyanmandir इति वास्तुविद्याविदुक्तं कुर्य्यात् इति । तदिदं कल्पान्तरं चशब्देन समुच्चीयते इति मन्यन्ते ॥ ० ॥ २६ ॥ ॥ मध्येऽग्निमुपसमाधाय कृष्णया गवा यजेत ॥ २७ ॥ [४ प्र. ७ का. ] मध्ये प्रकृतस्य गृहस्याभ्यन्तरे, न तदर्थपरिग्टहीताया भूमेः । कथं ज्ञायते ? | सन्निहितपरित्यागे व्यवहितपरिग्रहे च कारणविशेषस्याभावात् । “पूर्वैः प्रोष्ठपदैर्गृहेऽग्निं प्रतिष्ठाप्य” – इति च सामविधाने ब्राह्मणे दर्शनात् । श्रग्निम् उपसमाधाय, — इत्युक्तार्थम् । कृष्णया कृष्णवर्णया गवा यजेत । मेयं स्त्रीगवी अभिप्रेता, - गच्छामः । कस्मात् कारणात् ? । कृष्णया – इति स्त्रीलिङ्गनिर्देशात् ॥०॥ २७ ॥ ॥ -- इत्यव अजेन वा श्वेतेन ॥ २८ ॥ यजेत, — इत्यनुवर्त्तते । ऋजुरक्षरार्थः । वाशब्दाद् गोरभावे सत्ययं कल्पो बेोद्धव्यः ॥ ० ॥ २८॥॥ किं केवलया गवा ? केवलेन वा अजेन ? न । कथन्तर्हि ? - सपायसाभ्याम् ॥ २६ ॥ पयमि भवश्चरुः पायसः । तत्महिताभ्यां गोऽजाभ्यां यथालाभमन्यतरेण यजेत । लाघवं चिकीर्षुः खल्वयमाचार्य्य:, सपायसाभ्याम्, —इति सूत्रयाञ्चकार, न पुनर्गेऽजयोः साहित्यं प्रतिपिपादयिषया । कथं ज्ञायते ? | अजेन वा इति वाशब्देन तयोर्विकल्पप्रतिपादनात् ॥ ० ॥ २८ ॥ ० ॥ गोरजस्य चालाभे. - For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy