SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [४ प्र. ५ का. द्वितीययाऽऽदित्ये परिविष्यमाणेऽक्षततण्डुलान् जुहुयात् हत्पत्रस्वत्ययनकामः ॥ ३१ ॥ पदं त्रायते,-दति पत्रं वाहनमाचन्महे । वृहत्शब्दो महदचनः । वृहत् च तत् पत्रञ्चेति वृहत्पत्रं इस्त्यश्वादिकमुच्यते । तेषां वस्त्ययनमारोग्यं कामयते, इति वृहत्पवस्वस्त्ययनकामः:-प्रकृतस्य पवर्चस्य द्वितीयया ऋचा,-मृतं सत्ये प्रतिष्ठितम्,इत्येवमादिकयेत्येतत् । श्रादित्ये सवितरि परिविष्यमाणे, अक्षततण्डुलान् जुहुयात् , -दूत्युतार्थम् । परिवेषः परिधिरित्यनर्थान्तरम् । यत्र खल्वादित्यस्य किरणाः वातेन मण्डलीभूताः तस्य परितो नानाभाः लक्ष्यन्ते, सोऽयमादित्यस्य परिवेषः, इत्याचक्षते । तथा चोकम् । _ “वातेन मण्डलीभूताः सूर्याचन्द्रमसेाः कराः । नानाभा व्याहितन्वन्तः परिवेषाः प्रकीर्तिताः" । इति । तदिदमुपरिटादै क्षम् । क्षिाहोममत्रेच्छन्ति ॥०॥ ३१ ॥०॥ तृतीयया चन्द्रमसि तिलतण्डुलान् क्षुद्रपशु स्वस्त्ययनकामः ॥ ३२॥ प्रकृतस्य पञ्चच॑स्य हतीयया ऋचा,-अभिभागोऽमि, इत्यादिकये। त्येतत् । चन्द्रमसि परिविष्यमाणे तिलतण्डुलान् जुहुयादित्यनुवर्तते । तिलतण्डुलान्,-इति, अक्षततण्डुलान्,-इतिवद्व्याख्येयम् । को जुहुयात् ? । क्षुद्रपखस्दयनकामः । क्षुद्रपशब्देनाजाविकाधुच्यते । सर्वमन्यत् पूर्ववत् ॥०॥ ३२ ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy