SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. ५ का.] रह्यसूत्रम्। ६५ चतुर्थाऽऽदित्यमुपस्थायाथीन् प्रतिपद्येत स्वस्त्यर्थवा नागच्छति ॥ ३३॥ प्रकृतस्य पञ्चच॑स्य चतुर्था ऋचा,-कोश व पूर्ण वसना, इत्यादिकयेत्येतत् । पूर्ववत् प्रादित्यमुपस्याय, अर्थान् प्रति लक्षीत्य, तान् साधयितुमिति यावत् । पद्येत गच्छत् । अर्थान् प्रपद्येत, इति पाठेऽपि, अर्थान् माधयितुमिति पूर्वोक्त एवार्थः । एवं गच्छन् खल्वयं गन्ता, स्वस्त्यर्थवानागच्छति । यमर्थमभिसन्धाय गच्छति, तद्वान् स्वस्तिमांश्चागच्छति ग्रहम् ॥०॥ ३३ ॥०॥ पञ्चम्याऽऽदित्यमुपस्थाय गृहान् प्रपद्येत, स्वस्ति गृहानागच्छति स्वस्ति गृहानागच्छति ॥३४॥ प्रकृतस्य पञ्चस्य पञ्चम्या ऋचा, आकाशस्यैष आकाशः, इत्यादिकयेत्येतत् । तदनया ऋचा पूर्ववदादित्यमुपस्थाय ग्टहान् प्रति लक्षीकृत्य प्रपद्येत गच्छेत,-प्रवासस्थः, इति वाक्यशेषः । अथवा । ग्टहान् परित्यज्य प्रपद्येत गच्छेत् प्रवसेदित्यर्थः । गृहात् प्रपद्येत,इति पाठे, ग्टहात् सकाशात् प्रपद्येत,-इति स एवार्थः । एवं प्रपद्यमानः खल्वयं स्वस्ति मङ्गलं यथा भवति तथा ग्रहानागच्छति । दिवचनं पञ्चाधिकारसमाप्तिप्रज्ञापनार्थम् ॥०॥ ४४ ॥०॥ इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयग्टह्यसूत्रभाय्ये चतुर्थप्रपाठकस्य पञ्चमी काण्डिका ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy