SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [४ प्र. ३ का. तिशयात् सव्येन दर्भपिञ्चल्या ग्रहणमात्रं करणीयम् ?-इति। ग्रहणमात्रम्-इत्याह । कुतः? । सन्निधानातिशयादेव। एतदुक्तं भवति । प्रथमं भव्येन पाणिना स्वस्तरात् दर्भपिञ्जलीमादत्ते, ततः सव्यात् हस्तात् दक्षिणेन हस्तेन दर्भपिञ्जली ग्टहीत्वा, सव्येन अन्वारभ्य लेखामुल्लिखेत्, इति । एवमुत्तरचापि वर्णनीयम्। तथाच कर्मप्रदीपः । "भव्येन पाणिनेत्येवं यदत्रासकृदीरितम् । परिग्रहणमात्रन्तत् सव्यस्यादिशति व्रतम् । पिचल्याद्यभिमंग्टह्य दक्षिणेनेतरात् करात् । अन्वारभ्य च सव्येन कुर्य्यादुल्लेखनादिकम्” । इति । अत्र च, तिमृणामेव कर्पूणां मध्ये लेखोझेखनं बोद्धव्यम् । मन्त्रावृत्तिरुना ॥०॥ २ ॥०॥ सव्येनैव पाणिनाल्मुकं गृहीत्वा दक्षिणाड़े कपूणां निदध्याद्ये रूपाणि प्रतिमुञ्चमाना इति ॥३॥ व्याख्यातप्रायमेतत् ॥०॥ ३ ॥०॥ अथ पितृनावाहयत्येत पितरः सेोम्यास इति ॥ ४॥ अथ, इत्यानन्तार्थम्। कर्तेषु दर्भस्तरणानन्तरमित्यर्थः । कस्मात्?। उत्तरत्र कर्षषु दर्भेषु अवनेजनस्य पिण्डदानस्य च सूत्रणात् । “अथ शब्दोऽन्यकर्तृकत्वपक्षेऽपि यजमानपितृणामेव नियमार्थः' इत्यपरे व्याचक्षते । पिन्, इति बहुवचनात् पितामहप्रपितामहयोरपि ग्रहणम् । ऋज्वन्यत् ॥०॥ ४ ॥ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy