SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीय-गृह्यसूत्रे चतुर्थप्रपाठके तृतीया काण्डिका । श्रत ऊर्द्ध प्राचीनावीतिना वाग्यतेन कृत्यम् ॥१॥ ऋजुरतरार्थः । वाग्यमनेोपदेशात् मनमैव मन्त्रोच्चारणम् । “वाम्यतेन, — इति लौकिक्या वाचः प्रतिषेधो न मन्त्राश्रयायाः, मन्त्रोपदेशसामर्थ्यात् " - इति केचित् । तत्तु नातीव समीचीनम् । कुतः ? | इतः पूर्व्वमपि तदविशेषात् । न खलु कृत्यमध्ये लौकिक्या वाचः कथनं शिष्टैरनुमन्यते ॥ ॥ १ ॥०॥ सव्येन पाणिना दर्भपिज्ञ्जलों गृहीत्वा दक्षिणाग्रां लेखा मुल्लिखेदपहता असुरा इति ॥ २ ॥ सव्येन वामेन पाणिना दर्भपिञ्जलीं पूर्वोक्तलक्षणां ग्टहीत्वा दक्षिलाग्रां लेखां-रेखां उल्लिखेत् कुर्य्यादित्यर्थः । ( प्रत्ययार्थमात्र विवक्षा 1) अपहता इति मन्त्रेण । कस्मिन् लेखामुल्लिखेत् ? । कर्षूणां मध्यतः, – इति ब्रूमः । कुत: ? । प्रकृतत्वात् । पिण्डदानार्थं हि लेखालेखनम् । पिण्डाश्च कर्ष्वेव दास्यन्ते । इदमिदानीं मन्दिते । सव्येन पाणिना – इत्युपादानात्,किं मयेनैव पाणिना लेख लेखनं कर्त्तव्यम्, आहोस्वित् मन्निधाना AM For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy