________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[४ प्र. १ का. ]
इत्याचचते वैद्यकाः । वामात्— सव्यात् सक्नः । क्लोनश्चान्यत्र सर्व्वाङ्गेभ्य श्रवद्यन्ति । चशब्ददयं दयो स्तुल्यत्वप्रज्ञापनार्थम् । प्रयोजनञ्चास्योत्तरसूत्रे वक्ष्यामः ॥ ० ॥ ४ ॥ ० ॥
वामं क्वष्टाय निदध्यात् ॥ ५ ॥
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
,
वामं सक्थि, अपवादमा मर्थ्यात्तुल्यत्वप्रज्ञापनाच्च - क्लोम च, श्रन्वटक्याय, - तादर्थे चतुर्थी वच्यमाणान्वष्टक्यकमर्थं निदध्यात् स्थापयेत् ॥ ० ॥ ५ ॥ ० ॥
६०७
तस्मिन्नेवानौ श्रपयत्योदनचरुश्च मासचरुश्च पृथङ्मेक्षणाभ्यां प्रदक्षिणमुदायुवन् ॥ ६ ॥
अग्निदये चरुदयस्य श्रपणं माशङ्कीत, — इति तस्मिन्नेवाग्नावित्याह । तत्राग्नौ श्रोदनचरुञ्च श्रपयति, मांसचरुञ्च श्रपयतिअखण्डितैरेवावदानैः । पृथक् नाना श्रपयति । किं कुर्व्वन् ? | मेक्षणाभ्यां प्रदक्षिणमुदायुवन् । प्रदक्षिणं यथा उदायुवन् ऊर्द्धमीषन्मिश्रयन् । श्रदनचरुञ्च मांसचरुञ्च – इत्यसमामकरणं चरुद्वय श्रपणस्य पृथक्कालत्व प्रज्ञापनार्थम् । श्रपणक्रमश्चानयोः पाठक्रमादेव कल्पनीयः ॥ ० ॥ ६ ॥ ० ॥
भवति, तथा
9
शृतावभिघादिगुद्दास्य प्रत्यभिघारयेत् ॥ ७ ॥
व्याख्यातप्रायमेतत् । ननु, मांसचरो: स्थालीपाकधमानतिदेशात् तस्मिन्नेव चरावेतद्विधातव्यम् । तथाच श्टतमित्येकवचनं मांसचरुमिति वा कर्त्तुमुचितम् । कस्मात् द्विवचनं क्रियते ? |
For Private and Personal Use Only