SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२० // 19 // eeeee निबन्धने शोकेपनीतपि तद्वधकर्नत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारः नहि यत्र शोकोनास्ति तत्र पापं नास्तीति नियमः द्वेष्यत्राह्मणवधे शोकाविषये पापाभावप्रसङ्गात् अतोहं कर्ता त्वं प्रेरकइति द्वयोरपि हिंसानिमित्तपातकापत्तेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतेत्याशय काठकपठितया ऋचा परिहरति भगवान् एनं प्रकृतं देहिनं अदृश्यत्वादिगुणक योहन्तारं हननक्रियायाः कर्तारं वेत्ति अहमस्यहन्तति विजानाति यश्चान्यएनं मन्यते हतं हननक्रियायाः कर्मभूतं देहहननेन हताहमिति विजानाति तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं नविजानीतोन विवेकेन जानीतः शास्त्रात् कस्मात् यस्मात् नायं हन्ति न हन्यते कर्ता कर्म च न भवतीत्यर्थः अत्र यएनं वेत्ति हन्तारं हतं चेत्येतापति वक्तव्ये पदानामावत्तिस्यिाल तरार्था अथवा यएनं वेत्ति हन्तारं तार्किकादिरात्मनः कर्तृत्वाभ्युपगमान् तथा यचैनं मन्यते हतं चार्वाकादि रात्मनोविनाशित्वाभ्युपगमात् तावुभौ न विजानीत RRRRRRRRRRRRRRRRRR यएनं वेत्ति हन्तारं यश्चैनं मन्यते हतं॥उभौ तौ न विजानीतोनायं हन्ति न हन्यते // 19 // HEResettite हा इति योज्यं वादिभेदख्यापनाय पृथगुपन्यासः अतिशूरातिकातरविषयतया वा पृथगुपदेशः हन्ताचेन्मन्यते हन्तुं हतश्चेन्मन्यते हतमिति पूर्वार्धे श्रीतः पाठः // 19 // कस्मादयमात्मा हननक्रियायाः कर्ता कर्म च न भवति अविक्रियत्वादित्याह द्वितीयेन मन्त्रेण जायतेस्ति वर्धते विपरीणमतेपक्षीयते विनश्यतीति षड्भावविकाराइति वार्ष्यायणिरिति नैरुक्ताः तत्राद्यन्तयोनिषेधः क्रियते नजायते। त्रियतेवेति वा शब्दः समुच्चयार्थः नजायते नम्रियते चेत्यर्थः कस्मादयमात्मा नोत्पद्यते यस्मादयमात्मा कदाचित् कस्मिन्नपि काले न भूत्वा अभूत्वा प्राक् भूयः पुनरपि भविता न योह्यभूखा भवति सउत्पत्तिलक्षणां विक्रिया मनुभवति अयं तु प्रागपि सत्त्वाद्यतोनोत्पद्य|तेऽतोऽजः तथायमात्मा भूत्वा पाक् कदाचित् भूयः पुनः न भविता न वा शद्वाहाक्यविपरिवृत्तिः योहि प्राग्भूत्वा उत्तरकाले नभवति समृतिलक्षणां विक्रियामनुभवति अयंतु उत्तरकालपि सत्वाद्यतोन म्रियतेऽतोनित्यः विनाशायोग्यइत्यर्थः अत्र नभवेत्यत्रसमासाभावेपिनानुपपत्तिः नानुयाजधितिवत् भगवता पाणिनिना महाविभाषाधिकारे नसमासपाठात् यत्तुकात्यायनेनोक्तं समासनित्यताभिप्रायेण वा || For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy