SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir वचनानर्थक्यं तु स्वभावसिद्धत्वादिति तत् भगवत्पाणिनिवचनविरोधादनादयं नटुक्तमाचार्यशबरस्वामिना असहादीहिकात्यायनइति अत्र न-|| जायते म्रियते वेति प्रतिज्ञा कदाचित्रायं भूत्वा भविता वा न भूयइति तदुपपादन अजोनित्यइति तदुपसंहारइति विभाग आद्यन्तयोर्विकारयो| निषेधेन मध्यवर्तिविकाराणां तड्याप्यानां निषेधे जातेपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशद्वेनैव निराक्रियते तत्र कूटस्थनित्यत्वादात्मनोनिर्गुणत्याच न स्वरूपतोगुणतोवापक्षयः संभवतील्युक्तं शाश्वत इति शश्वत्सर्वदा भवति नापक्षीयते नापचीयतइत्यर्थः यदि नापक्षीयते तार्ह वर्धतामिति नेत्याह पुराणइति पुरापि न(भवएकरूपोनत्वधुना नूतनां कांचिदवस्था मनुभवति योहि नुतनां कांचिदुपचयावस्थामनुभवात सवर्धतइत्युच्यते लोक अयनु सर्वदैकरूपत्वान्नापचीयते नोपचीयतेवेत्यर्थः अस्तित्वविपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्ग निषिद्धौ यस्मादेवं सर्वविकारशून्यआत्मा तस्माच्छरीरे हन्यमाने तत्संबन्धोपि केना न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः॥ अजोनित्यः शाश्वतोयं पु. राणोन हन्यते हन्यमाने शरीरे // 20 // प्युपायेन नहन्यते नहन्तुं शक्यतइत्युपसंहारः॥२०॥ नायं हन्ति नहन्यतइति प्रतिज्ञाय नहन्यतइत्युपपादितं इदानीं नहन्तीत्युपपादयन्नुपसंहरति न विनटुं शीलं यस्य तमविनाशिनं अन्त्यविकाररहितं तत्र हेतुः अव्ययं न विद्यते व्ययोवयवापचयोगुणापचयोवा यस्य तमव्ययं अवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशः संभवतीत्यर्थः ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह अजमिति नजायतइत्यजमाद्यविकाररहितं तत्र हेतुः नित्यं सर्वदा विद्यमान प्रागविद्यमानस्य हि जन्म दृष्टं नतु सर्वदा | सतइत्यभिप्रायः अथवा अविनाशिनं अवाध्यं सत्यमिति यावत् नित्यं सर्वव्यापकं तत्र हेतुः अजमव्ययं जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं योवेद विजानाति शाखाचार्योपदेशाभ्यां साक्षात्करोति अहे सर्वावक्रियाशून्यः सर्वभासकः सर्वद्वैतरहितः परमानन्दबोधरूपइति सएवं वि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy