SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्षणाग्रे तोकजीवस्येव भक्ष श्रेयान् बहुपापाभावात् ” इत्युक्त्या ते मिथ्याधर्मनिष्ठा-IK स्तपस्विनो एकं तत्र विचरन्तं महागजंमारणार्थं वबंधुर्यत्र च शृंव लावद्धस्स गज आस्ते तेनैव मार्गेण आर्द्रकुमारोपि गच्छति स्म । अथ स हस्ती पंचशतशिष्ययुतं तमाईकुमारं | मुनि गच्छन्तं विलोक्य प्राणपरीप्सया यदा तच्छरणगमनायेच्छन् तत्काल एव तस्य शृंखलादयोबंधनाः स्वयमेव व्यशीर्यन् हस्ती च तच्चरणवन्दनाथ झटिति प्राद्रवत् । ते तापसा अकस्मादेव तं हस्तिनं तस्य मुनेः समीपं धावमानं विलोक्य " हा ! एष। मुनिहतो हतः, ” इति ब्रुवाणास्त मन्वधावन् किन्तु स गजस्तत्समीपमागत्य | नम्रीकृतकुम्भाभ्यां तत्त्पादावभिनन्दयत् पुनश्च स्वां शुण्डां प्रसार्य पुनः पुनस्तच्चरणौ स्टशति स्म । आर्द्रकुमारस्तं शरणागतं विलोक्य कृपादृष्ट्या निस्तरणसंकेतं कृतवान् | हस्ती च तद्विज्ञाय तूर्ण वनान्तरे प्राइवत् । ते तापसा अस्प मुनेरेतादृशं प्रभावं विलो. For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy