SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ काव्यमाला । सकलविदकलङ्कः क्षीणसंसारशङ्क श्चकितजनशरण्यः कस्त्रिलोक्यां त्वदन्यः ॥ ४८ ॥ न खलु तदपि चित्रं यत्त्वयोदेप्यतापि प्रथममयमकारि प्राप्तपुण्यो जनोऽत्र । प्रतिशिखरि वनानि ग्रीष्ममध्येऽपि कुर्या किमु न जलदकालः प्रोल्लसत्पल्लवानि ॥ ४९ ॥ तव वृषमधिरूढो योऽपि तस्य द्युलोकः स खलु कियति दूरे यो जनेनापि लभ्यः । यदि चतुरगमाप्तः प्राप्तवास्तदुरापं तदपि जिन जनोऽयं जन्मकान्तारतीरम् ॥ ५० ॥ सर इव मरुमार्गे स्वच्छतोयं तृषार्ते__स्तरुरिव रविरश्मिव्याकुलैरत्र सान्द्रः । निधिरिव चिरदःस्थैः शर्मणेऽस्माभिरेकः कथमपि भवभीतैर्नाथ दृष्टोऽसि दिष्टया ॥ ११ ॥ स्वगुणगरिमदौःस्थ्यं रोदसी रन्ध्ररोपा द्वयतिषजति जिनेश त्वद्यशश्चन्द्रगौरम् । कथय कथममन्दा मन्दिरोद्योतशक्ति प्रकटयति घटान्तर्वतिरूपः प्रदीपः ॥ ५२ ॥ गुणपरिकरमुच्चैः कुर्वतैव त्वयैते क्षपितकलुषदोषा रोषितास्तद्विपक्षाः । अथ न कथममीषां नेक्ष्यते त्वद्भयेन त्वदनुगतजनेऽपि प्रायशः प्रीतिलेशः ॥ ५३ ॥ इह पिहितपदार्थे सर्वथैकान्तवल्ग निबिडतमतमोभिर्विश्ववेश्मन्यकस्मात् । १. वृषं धर्मम् ; (पक्षे) वृषभम्. २. यः जनेन; (पक्षे) योजनेन क्रोशचतुष्टयात्मकेन. ३. चतुरगं चारित्रभारम्; (पक्षे) तुरगम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy