SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir < सर्गः] धर्मशर्माभ्युदयम् । दलितकमठप्टष्ठं चारुचारीप्रयोगै___ भ्रमितभुजनिरस्तस्त्रस्तविस्तारितारम् । प्रकटघटितलिङ्गाकारमावर्तवृत्त्या __ प्रमदविवशमिन्द्रैस्तत्पुरस्तादनति ॥ ४२ ॥ (युग्मम्) इति निरुपमभक्ति शक्तिमप्यात्मनीनां स्वपनविनययुक्त्या व्यक्तयन्तः सुरेन्द्राः । स्तुतिभिरवितथाभिः स्तुत्यमेनं समस्ताः शिरसि निहितहस्ताः स्तोतुमारेभिरे ते ॥ ४३ ॥ अखिलमलिनपक्षं पूर्वपक्षे निधाय । प्रथममुदितमात्रस्यापि संपूर्णमूर्तेः । जिनवर तव कान्त्या यत्कलामात्रशेषः प्रतिपदमृतभानुः स्पधते तन्मुधैव ॥ ४४ ॥ मुनिभिरमलबोधैरप्यशक्यासु कर्तु ___ स्तुतिपु तव गुणानामप्रगल्भप्रभेव । वरद महुरमन्दानन्दसंदोहदम्भा स्खलति गलगुहान्तनिर्भरं भारती नः ॥ ४५ ॥ स्टशति किमपि चेतश्चुम्बकग्रावगत्या त्वयि जिन जनतायाः स्वस्वकार्योद्यतायाः । किमु कुतुकमपूर्व नाथ यत्पूर्वजन्म व्रजजिनवनायःशृङ्खला निर्गलन्ति ।। ४६ ॥ अमितगुणगणानां त्वद्गतानां प्रमाणं भवति समधिगन्तुं यस्य कस्यापि वाञ्छा। प्रथममपि स तावद्वयोम कत्यङ्गुलानी त्यनघ सुगमसंख्याभ्यासमङ्गीकरोतु ॥ ४७ ॥ मनुज इति मुनीनां नायकं नाकि नामप्यवगणयति यस्त्वां निर्विवेकः स एकः । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy