SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९ सर्गः] धर्मशर्माभ्युदयम् । त्वमसि स खलु दीपः केवलालोकहेतुः शलभमुलभलीलां लप्स्यते यत्र कामः ॥ १४ ॥ अलमलममृतेनास्वादितं त्वद्वचश्चे त्किममरतरुलक्ष्म्या त्वय्यपि प्रार्थ्यमाने । जिन जगदतमस्कं कुर्वति त्वत्प्रबोधे किमहिमरुचिना वा कार्यमत्रेन्दुना वा ॥ ५५ ॥ दुरितमुदितं पाकोद्रेकात्पुराकतकर्मणां झटिति घटयत्यर्हद्भक्तेः स्वशक्तिविपर्ययम् । उपजलतरुच्छायाछन्ने जने जरठीभव द्दयुमणिकिरणैर्भीष्मो ग्रीष्मो न किं शिशिरायते ॥ ५६ ॥ इत्याराध्य त्रिभुवनगुरुं तत्र जन्माभिषेके भक्त्या मातुः पुनरपि तमुत्सङ्गभाजं विधाय । भूयो भूयस्तदमलगुणग्रामवार्ताभिरुद्य ल्लोमानस्ते त्रिदशपतयः स्वानि धामानि जग्मुः ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टमः सर्गः । नवमः सर्गः। सिक्तः सुरैरित्थमुपेत्य विस्फुरज्जंटालवालोऽथ स नन्दनद्रुमः । छायां दधत्काञ्चनसुन्दरी नवां सुखाय वप्तुः सुतरामजायत ॥ १ ॥ चित्रं किमेतजिनयामिनीपतियथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्घय तथा तथाखिलं प्रमोदवार्धिर्जगदप्यपूरयत् ॥ २ ॥ लप्स्यामहे तीर्णभवार्णवं पुनर्विवेकिन क्कैनमितीव तं प्रभुम् । बाल्याङ्गसंस्कारविशेषसत्क्रियाः किमप्यहपूर्विकया सिषेविरे ॥ ३ ॥ लोकस्त्रिलोक्यां सकलोऽपि सप्रभः प्रभावसंभावितमेकमर्भकम् । ज्योतिर्ग्रहाणामिव मण्डलो ध्रुवं ध्रुवं समन्तादनुवर्तते स्म तम् ॥ ४ ॥ १. जटाला जटायुक्ता बालाः केशा यस्य; (पक्ष) जटा मलम्, आलवालमावाल:. २. कांचन अनिर्वचनीयाम; (पक्षे) काञ्चनवत्सुन्दरीम,. ३. पितुः; मालाकारादेश्व, For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy