SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५६ www.kobatirth.org काव्यमाला । इति तमुपरि मेरोर्नेतुमुत्क्षिप्य देवाः कलितकनककुम्भामारभन्ते स्म पङ्गिम् ॥ ११ ॥ अभिनवमणिमुक्ताशङ्खशुक्ति प्रवालप्रभृतिकमतिलोलैर्दर्शयन्नूर्मिहस्तैः । tsजठरतयैक्षि व्याकुलो मुक्तकच्छः Acharya Shri Kailassagarsuri Gyanmandir स्थविरवणिगिवाये स्वर्गिभिः क्षीरसिन्धुः ॥ १२ ॥ उपचितमतिमात्रं वहिनीनां सहस्रैः पृथुलहरिसमूहैः क्रान्तदिक्चक्रवालम् । अकलुषतरवारिक्रोडमज्जन्महीभ्रं नृपमिव विजिगीषु मेनिरे ते पयोधिम् ॥ १३ ॥ अनुगतभुजगेन्द्रान्मन्दराद्रीनिवोच्चै र्दधतममलमुक्तामालिनः स्वर्णकुम्भान् । सुरनिकरमुपेतं वारिधिर्वीक्ष्य भूयो - ऽप्यतिमथनभियेव व्याकुलोर्मिश्चकम्पे ॥ १४ ॥ उदधिनिहितनेत्रान्वीक्ष्य वाग्विभ्रमाणां निधिरमृतभुजस्तान्पालकः केलिपात्रम् । विहितमुदमवोचद्वाचमेतामनुक्तो ऽप्यवसर मुखरत्वं प्रीतये कस्य न स्यात् ॥ १९ ॥ नियतमयमुदवीचिमालाछलेनो च्छलति जलदमार्गे ज्ञातजैनाभिषेकः । तदनु जडतयोच्चैर्नाधिरोढुं समर्थः पतति पुनरधस्तात्सागरः किं करोतु ॥ १६ ॥ प्रशमयितुमिवार्ति दुर्वहामौर्ववह्ने यदधिरजनि चान्द्रीः शीलयामास भासः । - १. पूर्णा गाधमध्यभावेन स्थूलोदरत्वेन च दृष्टः २ नदीनाम्; सेनानां च. ३. पृथुलहरिसमूहैः; (पक्षे ) पृथुल - हरिसमूहैः. हरयोऽश्वाः ४. अकलपतरं वारि जलम् ; ( पक्षे ) तरवारिः खङ्गः: For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy