SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ सर्गः] धर्मशर्माभ्युदयम् । अवकरनिकुरम्बे मारुतेनापनीते कुरुत धनकुमाराः साधु गन्धोदवृष्टिम् । तदनु च मणिमुक्ताभङ्गरगावलीभि विरचयत चतुष्कं सत्वरं दिक्कुमार्यः ॥ ५ ॥ स्वयमयमिह धत्ते छत्रमीशाननाथ स्तदनुगतमृगाक्ष्यो मङ्गलान्युत्क्षिपन्तु । जिनसविधममा नर्तिता बालवाल व्यजनविधिसनाथाः सन्तु सानत्कुमाराः ॥ ६ ॥ वलिफलकुसुमस्त्रग्गन्धधूपाक्षताद्यैः प्रगुणयत विचित्राण्यन्नपात्राणि देव्यः । सलिलमिह पयोधेरेष्यति व्यन्तराद्याः पटुपटहमृदङ्गादीनि तत्सज्जयन्तु ॥ ७ ॥ प्रवणय वरवीणां वाणि रीणासि कस्मा त्किमपरमिह ताले तुम्बरो त्वं वरोऽसि । इह हि भरत रङ्गाचार्य विस्तार्य रङ्गं त्वरयसि नटनार्थ किं न रम्भामदम्माम् ॥ ८॥ समुचितमिति कृत्यं जैनजन्माभिषेके त्रिदशपतिनियोगाग्राहयन्नाग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्डः सुरनिवहमवादीहारपालः कुबेरः ॥ ९ ॥ (कुलकम्) बहलमलयजन्मोन्मिश्रकर्पूरपांसु प्रसरपरिमलान्धाः श्रेणयः षट्पदानाम् । जिनपतिमभिषेक्तुं वाञ्छतां त्रुघदेनो निगलवलयतुल्या नि ठन्ति स्म तस्मिन् ॥ १० ॥ अयमतिशयवृद्धो निम्नगानामधीशः कथमिममधिरोहत्वम्बुनाथो नगेन्द्रम् । १. हे बालमेघाः. २. मङ्गलान्यष्टौ दर्पणदूर्वादध्यक्षतादीनि. ३. रीणा खिन्ना. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy