SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org काव्यमाला | अष्टोत्तरां दशशतीं शुभलक्षणानां बिभ्रत्स पुण्यविपणिः सहसापि दृष्टः । स्वर्गाद्यतेऽपि परमोत्सवनिर्निमेषाः काश्चित्रमत्र न चकार चकोरनेत्राः ॥ १५ ॥ गच्छन्नधश्विरतरं जिनजन्मदत्त हस्तावलम्ब इव निर्मलपुण्यराशिः । अप्रेरितोऽपि भवनामरमन्दिरेषु निः संख्यशङ्खनिवहः सहसोज्जगर्ज ॥ १६ ॥ रे रे भवभ्रमणजन्मजरान्तकाद्याः सद्यः प्रयात शममेष जिनोऽवतीर्णः । इत्थं प्रशासदिव डिण्डिमचण्डिमोचै: खं व्यन्तरानकशतध्वनिराततान ॥ १७ ॥ एको न केवलमनेकपमण्डलस्य १. व्यन्तरो देवयोनिभेदः. Acharya Shri Kailassagarsuri Gyanmandir 'गण्डाच्छिखण्डिगलकज्जलकान्तिचौरः । ज्योतिर्गृहग्रहिल सिंहसहस्त्रनादै रुत्कंधरः स जगतोऽपि मदो निरस्तः ॥ १८ ॥ तत्काललास्यरसलालसमोक्षलक्ष्मी विक्षिप्तपाणिमणिकङ्कणरावरम्यैः । जन्मन्यनल्पतरकल्पनिवासिवेश्म घण्टास्वनैः स्वयमपूरि जगजिनस्य ॥ १९ ॥ बालस्य तस्य महसा सहसोद्यतेन प्रध्वंसितान्धतमसे सदने तदानीम् । सेवागताम्बरमुनीनिव सप्त काचि दीपान्व्यबोधयत केवलमङ्गलार्थम् ॥ २० ॥ जन्मोत्सवप्रथमवार्तिकमात्मजस्य तस्य प्रमोदभरदुर्ललितो नरेन्द्रः । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy