________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ सर्गः]
धर्मशर्माभ्युदयम् । तस्याः स्तनौ हृदि रसैः सरसीव पूर्ण
संरेजतुर्गवैलमेचकचूचुकायौ ॥ ८ ॥ गर्म वसन्नपि मलैरकलङ्किताङ्गो
ज्ञानत्रयं त्रिभुवनैकगुरुर्बभार । तुङ्गोदयाद्रिगहनान्तरितोऽपि धाम
किं नाम मुञ्चति कदाचन तिग्मरश्मिः ॥ ९ ॥ काले कुलस्थितिरिति प्रतिपद्य विद्वा
न्कर्तुं यदैच्छदिह पुंसवनादिकर्म । स्वःस्पर्धयेव तदुपेत्य पुरंदरेण
प्रागेव निर्मितमुदैवत स क्षितीशः ॥ १० ॥ सा गर्भनिर्भरतया सकलाङ्गसाद___ मासाद्य निष्क्रियतनुस्तरुणेन्दुगौरी । आलोकिता स्फटिककृत्रिमपुत्रिकेव
भर्तुस्तदा मदयति स्म मनो मृगाक्षी ॥ ११ ॥ वजानलादि न ससर्ज न चोजगर्ज
साश्चर्यमैलेविल इत्यपरोऽम्बुवाहः । अष्टौ च सप्त च जिनेश्वरजन्मपूर्वा
न्मासान्व्यधत्त नृपधामनि रत्नवृष्टिम् ॥ १२ ॥ पुष्पं गते हिमरुचौ तपसो वलक्ष__ पक्षाश्रितां तिथिमथ त्रिजयामवाप्य । प्राचीव भानुमभिनन्दितसर्वलोकं
सासूत सूत्रितनयं तनयं मृगाक्षी ॥ १३ ॥ शातोदरी शयनसंनिहितेन तेन
प्रोत्तप्तकाञ्चनसकाशरुचा चकाशे । कंदर्पदर्पजयिना नयनानलेन
कामद्विषः शिरसि चान्द्रमसी कलेव ॥ १४ ॥ १. गवलं माहिषं शृङ्गम्. २. ऐलविलः कुबेरः. ३. त्रयोदशीम्.
For Private and Personal Use Only