SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं __शौटीर्य तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ ८२ ॥ रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ॥ ८३ ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ ८४ ॥ याच्ञायै वचनक्रमं रचयतः पादौ परिभ्रान्तये नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं तत्कि हन्त परिश्रमोऽपि निकटीभूयं(?) न संपन्नवान् ॥८॥ रक्षाकृते धनलवस्य विमूढचेता लो[भाजनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः कालो निकृन्तति न तन्ननु शङ्कतेऽपि ॥ ८६ ॥ बन्धो क्रोध विधेहि किंचिदपरं स्वस्याधिवासास्पदं भ्रातर्मान भवानपि प्रचलतु त्वं देवि माये ब्रज । हंहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां ___ नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ ८७ ॥ मनो न वैराग्यतरङ्गितं चेद्वथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां मुधा तदा विभ्रमवल्गितानि ॥ ८८॥ विश्वाः कलाः परिचिता यदि तास्ततः किं ___ तप्तं तपो यदि तदुग्रतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि मन्तर्विवेककलिका यदि नोल्ललास ॥ ८९ ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy