SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सूक्तिमुक्तावली । पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः ॥ २१ ॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते Acharya Shri Kailassagarsuri Gyanmandir यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स संघोऽर्च्यताम् २२ लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्वःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः संघ गुणसंघकेलिसदनं श्रेयोरुचिः सेवते ॥ २३ ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यव चत्वित्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते । शक्ति यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः संघः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ॥ २४ ॥ अथाहिंसाप्रक्रमः । क्रीडाभूः सुकृतस्य दुष्कृतरजः संहारवात्या भवो - दन्वन्नौर्व्यसनाग्निमेघपटली संकेतदूती श्रियाम् । निःश्रेणिस्त्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ॥ २९ ॥ यदि ग्रावा तोये तरति तरणिर्यद्युदयते प्रतीच्यां सप्तार्चिर्यदि भजति शैत्यं कथमपि । १. 'सुखं' ख. २. 'निःश्रेणी त्रिदिवौकसां क. ३९ यदि क्ष्मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् ॥ २६ ॥ स कमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवक्रात्साधुवादं विवादात् । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy