SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं ___पूर्ण भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः ॥ १६ ॥ अथ जिनमतप्रक्रमः ।। न देवं नादेवं न शुभगुरुमेनं न कुगुरुं न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ १७ ॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थ वृथा श्रोत्रयो___ निर्माणं गुणदोषभेदनकलां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्ति बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥ १८ ॥ पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमव न्मित्रं शात्रववत्स्त्रनं भुजगवचिन्तामणि लोष्टवत् । ज्योत्स्नां ग्रीष्मजधर्मवत्स मनुते कारुण्यपण्यापणं ___ जैनेन्द्रं मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते ॥ १९ ॥ धर्म जागरयत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मनाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च यत्तज्जैन मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥ २० ॥ अथ संघप्रक्रमः ।। रत्नानामिव रोहणक्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । १. 'दमैः' क. १. स्वामिरहितसैन्यवत्. ३. 'जिनमतद्वारम्' ग. ४. 'संघद्वारम्' ग, ५. 'रोहणः' क. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy