SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४० www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir रुगपगममजीर्णाज्जीवितं कालकूटा दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ २७ ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ २८ ॥ अथासत्यप्रक्रमः । विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तः पथ्यदनं जलाग्निशमनं व्याघोरगस्तम्भनम् । श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ २९ ॥ यशो यस्माद्भस्मीभवति वनवह्नेरिव वनं निदानां दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्याच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३० ॥ असत्यमप्रत्ययमूलकारणं कुवासनास समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३१ ॥ तस्याग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः कान्तारं नगरं गिरिगृहमहिर्माल्यं मृगारिमृगः । पातालं बिलमस्त्रमुत्पलदलं व्यालः सृगालो विषं पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ॥ ३२ ॥ अथ स्तेयप्रक्रमः । तमभिलषति सिद्धिस्तं वृणीते समृद्धि स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः । स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपत्तं यो न गृह्णात्यदत्तम् ॥ ३३ ॥ १. मार्गोपयुक्त भोजनम् शम्बलमिति यावत्. २. आतपे छायेव. ३. दुष्टगज: . For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy