________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिद्धिप्रियस्तोत्रम् |
संवृद्धधर्मसुधिया कविराजमानः (१)
क्षिप्रं करोतु यशसा स विराजमानः ॥ २ ॥
श्रुत्वा वचांसि तव संभवकोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवप्रमुक्तसुमनोभवनाशनानि
Acharya Shri Kailassagarsuri Gyanmandir
स्वार्थस्य संसृतिमनोभवनाशनानि ॥ ३ ॥ यस्मिन्विभाति कलहंसरवैरशोक
छिन्द्यात्स भिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेघजालं
शम्पेव पर्वततटं गुरुमेघजालम् ॥ ४ ॥ येन स्तुतोऽसि गतकुन्तल तापहार
चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ वैरानतेन
कामाश्रिता सुमतिनाथ वरा न तेन ॥ १ ॥
मोहप्रमादमद कोपरतापनाशः (?)
पञ्चेन्द्रियाश्वदमकोsपरतापनाशः ।
पद्मप्रभुर्दिशतु मे कमलां वराणां
मुक्तात्मनां विगतशोकमलाम्बराणाम् || ६ ||
ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनैयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया
ईशा भवन्ति सुरलोकविमानमायाः ॥ ७ ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि
शान्ति मनः समधियावनिनाय कोपि ।
For Private and Personal Use Only
३१
१. संभवेति जिननाम. २. हे देव प्रमुक्तसुमनोभवन, अश ( स )नानि प्रेरकाणि स्वार्थस्य. ३. हे वर, आनतेन. ४. लक्ष्मी: ५. विनयस्येनं प्रभुम् अहीनभोगाः ६. देवलोकव्योमयानश्रियः ७. कोपयुक्तं मनः शान्तिमवनिनाय.