SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ काव्यमाला। चन्द्रप्रभ प्रभजति स्म रैमा विना शं दोर्दण्डमण्डितरतिस्मरमाविनाशम् ॥ ८ ॥ श्रीपुष्पदन्त जिनजन्मनि काममाशा यामि प्रिये वितनुतां च निकाममाशाः । इत्थं रतिं निगदतातनुना सुराणां स्थानं व्यधायि हृदये तेनुना सुराणाम् ॥९॥ श्रीशीतलाधिप तवाधिसभं जनानां __ भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम् । प्रीतिं करोति विततां सुरसारमुक्ति मुक्तात्मनां जिन यथा सुरसार मुक्तिः ॥ १० ॥ पादद्वये मुदितमानसमानतानां श्रेयन्मुने विगतमान समनितानाम् । शोभां करोति तव कांचन भा सुराणां देवाधिदेव मणिकाञ्चनभासुराणाम् ॥ ११ ॥ . घोरान्धकारनरकक्षतवारणानि श्रीवासुपूज्यजिन दक्ष तवारणानि । मुक्त्यै भवन्ति भवसागरतारणानि वाक्यानि चित्तंभवसागरतारणानि ॥ १२ ॥ भव्यप्रजाकुमुदिनीविधुरञ्जनानां हन्ता विभासि दलयन्विधुरं जनानाम् । इत्थं स्वरूपमखिलं तव ये विदन्ति राज्यं भजन्ति विमलेश्वर तेऽविदन्ति ॥ १३ ॥ १. द्वितीयाबहुवचनम्. २. सुखम्. ३. दोर्दण्डमण्डितरतेः स्मरस्य माया लक्ष्म्याश्च विनाशो यस्मिन्सुखे. मोक्षसुखमिति भावः. ४. सूक्ष्मेण. ५. सुशब्दां रतिम्. ६. सुरसा-अरं-उक्तिः , ७. हे सुरश्रेष्ठ. ८. मानत्वेन सहवर्तमानानाम्. ९. अरणानि युद्धनिषेधकानि. १०. चित्तभवमायाः कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि. ११. कल्मषाणाम्. १२. विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति. ह. स्तियुक्तं राज्यमित्यर्थः. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy